Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
दशवैकालिक - मूलसूत्र - ९/३/४५९ अलद्धअं नो परिदेवइज्जा, लद्धुं न विकत्थई स पुज्जो ॥
वृ. किं च- 'अज्ञातोञ्छं' परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि 'चरति ' अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि 'विशुद्धम्' उद्गमादि- दोषरहितं, न तद्विपरीतम्, एतदपि 'यापनार्थं संयमभरोद्वाहिशरीरपालनाय नान्यथा 'समुदानं च' उचितभिक्षालब्धं च 'नित्यं' सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागतः 'अलब्ध्वा' अनासाद्य 'न परिदेवयेत्' न खेदं यायात्, यथा- मन्द- भाग्योऽहमशोभना वाऽयं देश इति, एवं विभागतश्च 'लब्ध्वा' प्राप्योक्ति 'न विकत्थते' न श्लाधां करोतिसपुण्योऽहं शोभना वाऽयं देश इत्येवं स पूज्य इथि सूत्रार्थः ॥
मू. (४६०) संधारसिज्जासनभत्तपाने, अप्पिच्छया अइलाभेऽवि संते । जो एवमप्पाणभितोसइज्जा, संतोसपाहन्नरए स पुज्जो ॥
२३२
वृ. किं च संस्तारकश्य्यासन भक्तपानानि प्रतीतान्येव, एतेषु 'अल्पेच्छता' अमूर्च्छया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् य एवमात्मानम् 'अभितोषयति' येन वा तेन वा यापयति 'संतोषप्राधान्यरत: ' संतोष एव प्रधानभावे शक्तः स पूज्य इति सूत्रार्थः ॥
मू. (४६१ ) सक्का सहेउं आसाइ कंटया, अओमया उच्छहया नरेणं । अनासए जो उ सहिज्ज कंटए, वईमए कंन्त्रसरे स पुज्जो ॥
वृ. इन्द्रियसमाधिद्धारेण पूज्यतामाहह- शक्याः सोढुम् 'आशये 'ति इदं मे भविष्यतीति प्रत्याशया, क इत्याह-कण्टका 'अग्रोमया' लोहात्मकाः 'उत्सहता नरेण' अर्थोद्यमवतेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशय-नमप्यर्थलिप्सया, न तु वाक्कण्टका: शंक्या इत्येवं व्यवस्थिते ‘अनाशया' फलप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् 'वाड्मयान्' खरादिवागात्मकान् 'कर्णसरान्' कर्णगामिनः स पूज्य इति सूत्रार्थः ॥
मू. (४६२ ) मुहुत्तदुक्खा उ ह वंति कंटया, अओमया तेऽवि तओ सुउद्धरा । वायुदुरुत्ताणि दुरुद्धाराणि, वेरानुबंधीणि महब्भयाणि ॥
वृ. एतदेव स्पष्टयति- ' मुहूर्त्तदुःखा' अल्पकालदुःखा भवन्ति कंटका अयोमयाः, , वेधकाल एव प्रायो दुःखभावात्, तेऽपि 'ततः ' कायात् 'सद्धराः ' सुखेनैवोथ्रियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः 'दुरुद्धराणि' दुःखेनोध्धियन्ते मनोलक्षवेधनाद् 'वैरानुबन्धीनि ' तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः ॥
मू. (४६३)
समावयंता वयणाभिधाया, कन्नगया दुम्मणिअं जणंति । धम्मुत्ति किच्चा परमंग्गसूरे, जिइंदिए जो सहई स पुज्जो ॥ वृ. च- 'समापततन्त' एकीभावेनाभिमुखं पतन्तः, "इत्याह- 'वचनाभिधाताः ' खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासात् 'दौर्मनस्यं' दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान् वचनाभिधातान् धर्मइतिकृत्वा सामायिकपरिणामापन्नो न त्वशक्तयादिना 'परिमाग्रशूरो' दानसंग्रामशूरोपेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुप
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284