Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 233
________________ २३० दशवैकालिक - मूलसूत्र - ९ / २ / ४४९ खमेह अवराहं मे, वइज्ज न पुणुत्ति अ ॥ वृ. एवं कायविनयमधिधाय वाग्विनयमाह 'संघट्टिय' स्पृष्ट्वा 'कायेन' देहेन कथंचित्तथाविधप्रदेशोपविष्टमाचार्यं तथा 'उपधिनापि ' कल्पादिना कथंचित्संघट्टय मिथ्यादुष्कृतपुरःसरमभिवन्द्य 'क्षमस्व' सहस्व 'अपराधं' दोषं मे मन्दभाग्यस्यैवं 'वदेद्' ब्रूयात् 'न पुनरिति च' नाहमेनं भूयः करिष्यामीति सूत्रार्थः ॥ मू. (४५० ) दुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वृत्तो वुत्तो पकुव्वई ॥ वृ. एतच्च बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह 'दुर्गौरिव' गलिबलीवर्द्दवत् 'प्रतोदेन' आरादण्डलक्षणेन 'चोदितो' विद्धः सन् 'वहति' नयति कापि 'रथं' प्रतीतम्, 'एवं' दुर्गौरिव 'दुर्बुद्धिः' अहितावहवुद्धिः शिष्यः 'कृत्यानाम्' आचार्यादीनां ‘कृत्यानि वा' तदभिरुचित्तकार्याणि 'उक्त उक्तः ' पुनः पुनरभिहित इत्यर्थः, 'प्रकरोति' निष्पादयति प्रयुङ्कते चेति सूत्रार्थः ॥ मू. (४५१) "आलवंते लवंते वा, न निसिज्जाइ पडिस्सुणे । मुत्तूण आसनं धीरो, सुस्सूसाए पडिस्सुणे ॥" कालं छंदोवयारं च, पडिलेहित्ता न हेउहिँ । तेन तेन उवाएणं, तं तं संपडिवायए ॥ मू. (४५२) वृ. एवं च कृतान्यमूनि न शोभनानीत्यत: (आह) - 'कालं' शरदादिलक्षणं, 'छन्दः ' तदिच्छारूपम् ‘उपचारम्' आराधनाप्रकारं, चशब्दाद्देशादिपरिग्रहः, एतत् 'प्रत्युपेक्ष्य' ज्ञात्वा 'हेतुभिः ' यथानुरूपैः कारणैः किमित्याह तेन तेनोपायेन गृहस्थावर्जनादिना 'तत्तत्' पित्तहरादिरूपमशनादि संप्रतिपादयेत्, यथा काले शरदादौ पित्तहरादिभो-जनं प्रवातनिवातादिरूपा शय्या, इच्छानुलोभं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोभं भाषणं ग्रन्थाभ्यासवैयावृत्त्यकरणादि देशे अनूपदेशाद्युचितं निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं संपादयेदिति सूत्रार्थः ॥ मू. (४५३ ) Jain Education International विवत्ती अविनीस्स, संपत्ती विनिअस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥ वृ. किंच - विपत्तिरविनीतस्य ज्ञानादिगुणानां संप्रात्पिर्विनीतस्य च ज्ञानादिगुणानामेव, 'यस्यैतत्' ज्ञानादि प्रास्यप्रासिद्धयम् 'उभयतः' उभयाभ्यां विनयाविनयाभ्यां सकाशात् भवतीत्येवं ‘ज्ञातम्' उपादेयं चैतदिति भवति 'शिक्षा' ग्रहणासेवनारू पाम् 'असौ' इत्थंभूतः अधिगच्छति प्राप्नोति, भावत उपादेयपरिज्ञानादिति सूत्रार्थः ॥ मू. (४५४ ) जे आवि चंडे मइइड्डिगारवे, पिसुणे नरे साहसहीणपेसणे । अदिट्ठधम्मे विनए अकोविए, असंविभागी न हु तस्स मुक्खो ॥ वृ. एतदेव दृढयन्नविनीतफलमाह - यश्चापि 'चेण्ड : ' प्रवजितोऽपि रोषण: 'ऋद्धिगौरवमतिः' ऋद्धिगौरवे अभिनिविष्टः 'पिशुनः' पृष्ठिमांसखादकः 'नरो' नरव्यञ्जनो न भावनरः 'साहसिकः' अकृत्यकरणपरः 'हीनप्रेषणः ' हीनगुर्वाज्ञापर 'अदृष्टधर्मा' सम्यगनुपलब्धश्रुतादि For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284