Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-९, उद्देशकः-२. [नि. ३२८]
२२७ _ 'एवं' द्रुममूलवत् धर्मस्य परमकल्पवृक्षस्य विनयो 'मूलम्' आदिप्रबन्धरूपं 'परम' इत्यग्रो रसः 'से' तस्य फलरस्वन्मोक्षः,स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्तव्यः किंविशिष्ट इत्याह-'येन' विनयेन 'कीर्ति' सर्वत्र शुभप्रवादरूपां तथा श्रुतम्' अङ्गप्रविष्टादि 'श्लाध्यं' प्रशंसास्पदभूतं 'नि:शेषं' संपूर्णम् 'अधिगच्छति' प्राप्नोतीति ॥ मू. (४३४) जे अ चंडे मिए थद्धे, दुव्वाई नियडी सढे।
वज्झइ से अविनीअप्पा, कट्टं सोअगयं जहा। वृ.अविनयवतो दोषमाह- 'जे अत्ति सूत्रं, यः ‘चण्डो' रोषणो 'मृगः' अज्ञः हितमप्युक्तो रुष्यति तथा 'स्तब्धो' जात्यादिमदोन्मत्तः 'दुर्वाग्' अप्रियवक्ता 'निकृतिमान्' मायोपेतः 'शठः' संयमयोगेष्वनाहतः, एभ्यो दोषेभ्यो विनयं न करोति यः उह्यतेऽसौ पापः संसारस्रोतसा 'अविनीतात्मा' सकलकल्याणैकनिबन्धनविनयविरहितः। किमिवेत्याह-काष्ठं स्तोतोगतं' नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः ।। मू. (४३५) विनयपि जो उवाएणं, चोइओ कुप्पई नरो।
दिव्वं सो सिरिमज्जति, दंडेण पडिसेहए। वृ.किंच-'विनयंपी'ति सूत्रं, 'विनयम्' उक्तलक्षणं यः ‘उपायेनापि' एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः 'चोदित' उक्तः "कुप्यति' रुष्यति नरः । अत्र निदर्शनमाह-'दिव्याम्' अमानुषीम् 'असौ' नरः श्रियं' लक्ष्मीम् 'आगच्छन्तीम्' आत्मनो भवन्तीं 'दण्डेन' काष्ठमयेन 'प्रतिषेधयति' निवारयति। एतदुक्तं भवति-विनय: संपदो निमित्तं, तत्र स्खलितं यदि कञ्चिच्चोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्ग-कारी च तद्युक्तः कृष्ण। मू.(४३६) तहेव अविनीअप्पा, उववज्झा हया गया।
दीसंतिदुहमेहता, आभिओगमुवडिआ वृ. अविनयदोषोपदर्शनार्थमेवाह-'तहेव'त्ति सूत्रं, 'तथैवे'ति तथवैते अविनीतात्मानो' विनयरहिता अनात्मज्ञाः, उपवाह्यानांराजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः 'हया' अश्वाः 'गजा' हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याह-'दृश्यन्ते' उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलोकवर्तिना यवसादिवोढार: 'दुःख' संक्लेशलक्षणम् ‘एधयन्तः' अनेकार्थत्वादनुभवन्तः अभियोग्य' कर्मकरभावम् 'उपस्थिताः' प्राप्ता इति सूत्रार्थः ।। मू. (४३७) तहेव सुविनीअप्पा, उववज्झा हया गया।
दीसंति सुहमेहता, इढेि पत्ता महायसा।। । वृ.एतेष्वेव विनयगुणमाह-'तहेव'त्ति सूत्रं, तथैवे'ति तथैवैते 'सुविनीतात्मानो' विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत्। एते किमित्याह-'दृश्यन्ते' उपलभ्यन्त एव सुखम्-आह्लादलक्षणम् ‘एधमाना' अनुभवन्तः 'शुद्धि प्राप्ता' इति विशिष्ट-भूषणालयभोजनादिभावतः प्राप्तर्द्धयो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः॥ म.(४३८) तहेव अविनीअप्पा, लोगंमि नरनारिओ।
दीसंति दुहमेहता, छाया विगलितेंदिआ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284