________________
२२८
दशवैकालिक - मूलसूत्रं - ९ / २ / ४३८
वृ. एतदेव विनयाविनयफलं मनुष्यानिधिकृत्याह
'तहेव'त्ति सूत्रं, ‘तथैव' तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् । 'लोके' अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटार्थं दृश्यन्ते दुःखमेधमाना इति पूर्ववत् 'छारा (ता:)' कसधातव्रणाङ्कितशरीरा: 'विगलितेन्द्रिया' अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः ॥ दंडसत्थापरिज्जुन्ना, असब्भयवयणेहि अ ।
मू. (४३९)
कलुणाविवत्रच्छंदा, सुप्पिवासाइपरिगया ।
वृ. तथा 'दंड' त्ति सूत्रं, दण्डा - वेत्रदण्डादयः शस्त्राणि खङ्गादीनी ताभ्यां परिजीर्णाःसमन्ततो दुर्बलभावमापादिताः तथा 'असभ्यवचनैश्च' खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वात्करुणा-दीना व्यापन्नच्छन्दसः - परायत्ततया अपेतस्वाभिप्रायाः, क्षुधा - बुभुक्षया पिपासया - तृषा परिगता - व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेर्दुःखिततरा विज्ञेया इति । मू. (४४० ) तहेव सुविनीअप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता इड्डि पत्ता महायसा ॥
वृ. विनयफलमाह- 'तहेव'त्ति सूत्रं, 'तथैव' विनीततिर्यञ्च इव सुविनीतात्मानो लोकेऽस्मि - नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धिं प्राप्ता महायशस इति पूर्ववदेव, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः ॥
-
मू. (४४१) तहेव अविनीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति दुहमेहंता, आभिओगमुवट्ठिआ ॥
वृ. (४४१ ) एतदेव विनयाविनयफलं देवानधिकृत्याह - 'तहेव'त्ति सूत्रं, 'तथैव' यथा नरनार्यः ‘अविनीतात्मानो' भवान्तरेऽकृतविनयाः 'देवा' वैमानिका ज्योतिष्का 'यक्षाश्च' व्यन्तराश्च 'गुह्यका' भवनवासितः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः पराज्ञाकरणपरवृद्धिदर्शनादिना, आभियोग्यमुपस्थिताः-अभियोगः आज्ञाप्रदानलक्षणोऽस्यास्तीत्यभियोगी तद्भाव आभियोग्यं कर्मकरभावमित्यर्थः उपस्थिताः प्राप्ता इति सूत्रार्थः ॥
मू. (४४२ )
तहेव सुविनीअप्पा, देवा जक्खा अ गुज्झगा ।
दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥
वृ. विनयफलमाह-'तहेव 'त्ति सूत्रं, 'तथैवे 'ति पूर्ववत्, 'सुविनीतात्मानो' जन्मान्तरकृतविनया निरतिचारधर्माराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अर्हत्कल्याणादिषु 'ऋद्धि प्राप्ता' इति देवाधिपादिप्राप्तर्द्धयो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥
मू. (४४३)
जे आयरिअउवज्झायाणं, सुस्सूसावयणंकरा । तेसि सिक्खा एवड्डूंति, जलसित्ता इव पायवा ॥
वृ. एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, अधुना विशेषतो लोकोत्तरविनयफलमाह-'य आचार्योपाध्याययोः प्रतीतयोः 'शुश्रुषावचनकराः ' पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां 'शिक्षा' ग्रहणासेवनालक्षणा भावार्थरूपाः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International