SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-९, उद्देशकः -२. [नि.३२८] २२९ 'प्रवर्द्धन्ते' वृद्धिमुपयान्ति, दृष्टान्तमाह-जलसिक्ता इव पादपा' वृक्षा इति सूत्रार्थः ।। मू.(४४४) अप्पणट्ठा परट्ठा वा, सिप्पा नेउणिआणि अ। गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ॥ वृ.एतच्च मनस्याधाय विनयः कार्य इत्याह- 'आत्मार्थम्' आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं परार्थं वा' परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्वामीत्येवं शिल्पानि' कुम्भकारक्रियादीनि 'नैपुण्यानि च' आलेख्यादिकलालक्षणानि 'गृहिणः' असंयता 'उपभोगार्थम्' अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः ‘इहलोकस्य कारणम्' इहलोकनिमित्तमिति। म.(४४५) जेणं बंधं वह धोरं, परिआवं च दारुणं। सिक्खमाणा निअच्छंति, जुत्ता ते ललिइंदिआ। व.'येन' शिल्पादिना शिक्ष्यमाणेन 'बन्धं' निगडादिभिः 'वधं' कषादिभिः 'घोरं' रौद्रं परितापं च 'दारुणम्' एतज्जनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् 'नियच्छन्ति' प्राप्नुवन्ति 'युक्ता' इति नियुक्ताः शिल्पादिग्रहणे ते 'ललितेन्द्रिया' गर्भेश्वरा राजपुत्रादय इति सूत्रार्थः॥ मू. (४४६) तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स कारणा। सक्कारंति नमसंति, तुट्ठा निद्देसवत्तिणो॥ वृ.तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तनिमित्वादिति भावः, तथा 'सत्कारयन्ति' वस्त्रादिना 'नमस्यन्ति' अञ्जलिप्रग्रहादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा 'निर्देशवर्तिन' आज्ञाकारणि इति सूत्रार्थः ॥ मू. (४४७) किं पुणं जे सुआगाही, अनंतहिअकामए। आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए। वृ.यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:-किं पुनर्यः साधुः श्रुतग्राही' परमगुरुषप्रणीतागमग्रहणाभिलाषी 'अनन्तहितकामुकः' मोक्षं यः कामयत इत्यभिप्रायः, तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्वदन्ति किमपि तथा तथाऽनेकप्रकारं "भिक्षुः' साधुस्तस्मात्तदाचार्यवचनं नातिवर्तेत, युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थः॥ मू. (४४८) नीअं सिज्जं गईं ठाणं, नीअंच आसनानि । - नीअंच पाए वंदिज्जा, नीअंकुज्जा अ अंजलिं ॥ वृ.विनयोपायमाह-नीचां 'शय्यां' संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां गतिं आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मात्रीचतरे स्थाने स्थातव्यमिति भावः । तथा 'निचानि' लघुतराणि कदाचित्कारणजाते 'आसनानि' पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा 'नीच' च सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया, तथा कचित्प्रश्नादौ 'नीच' नम्रकायं कुर्यात्' संपादयेच्चाञ्जलिं, न तु स्थाणुवत्स्तब्ध एवेति। मू. (४४९) संघट्टइत्ता काएणं, तहा उवहिणामवि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy