Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-७, उद्देशकः - [नि. २९३]
२०१ बहुवित्थडोदगा आवि, एवं भासिज्ज पन्नवं । वृ.प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह-'बहुवाहड'त्ति सूत्रं, बहुभृताः प्रायशो भृता इत्यर्थः, तथा 'अगाधा' इति बह्वगाधाः प्रायोगम्भीराः, तथा बहुसलिलोत्पीलोदकाः' प्रतिस्रोतोवाहितापरसरित इत्यर्थः, तथा विस्तीर्णोदकाच' स्वतीरफ्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति सूत्रार्थः ।। वाग्विधिप्रतिषेधाधिकार एवेदमाहमू. (३३३) तहेव सावज्जं जोगं, परस्सट्ठा अनिट्ठि।
कीरमाणति वा नच्चा, सावज्जंन लवे मुणी ।। वृ.तहेव'त्ति सूत्रं, तथैव सावा' सपापं 'योग' व्यापारमधिकरणं सभादिविषयं परस्याय' परनिमित्तं 'निष्ठितं' निष्पन्नं तथा 'क्रियमाणं वा' वर्तमानं वाशब्दाद्भविष्यत्कालभाविनं वा ज्ञात्वा 'सावधं नालपेत्' सपापं न ब्रूयात् 'मुनिः' साधुरिति सूत्रार्थः ।। मू. (३३४) सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे।
सुनिट्ठिए सुलट्ठित्ति, सावज्जं वज्जए मुनी॥ वृ. तत्र निष्ठितं नैवं ब्रूयादित्याह-'सुकडि'त्ति सूत्रं, 'सुकृत'मिति सुष्ठ कृतं सभादि 'सुपक्क'मिति सुष्टु पक्कं सहस्रपाकादि 'सुच्छिा 'मिति सुष्ठु छिन्नं तद्वनादि 'सुहृत'मिति सुष्टु हृतं क्षुद्रस्य वित्तं 'सुमृत' इति सुष्ट मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित मिति सुष्टुनिष्ठितं वित्ताभिमानिनो वित्तं 'सुलट्ठि'त्ति सुष्ठ सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेद् मुनिः, अनुमत्यादिदोषप्रसङ्गात्, निरवद्यं तु न वर्जयेत्, यथा-'सुकृत'मिति सुष्ठ कृतं वैयावृत्त्यमनेन 'सुपक्व'मिति सुष्ठ पक्वं ब्रह्मचर्यं साधोः 'सुच्छिन्न मिति सुष्टु छिन्नं स्नेहबन्धनमनेन, 'सुहत'मिति सुष्ठ हृतं शिक्षकोपकरणमुपसर्गे 'सुमृत' इति सुष्ठु मृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित'मिति सुष्ठ निष्ठितं कर्माप्रमत्तसंयतस्य 'सुलट्ठ'त्ति सुष्ठ सुन्दरा साधुक्रियेत्येवमादीति सूत्रार्थः ।। मू. (३३५)पयत्तपक्कत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्नमालवे।
पयत्तलट्ठित्ति व कम्महेउअं, पहारगाढत्ति व गाढमालवे ॥ वृ.उक्तानुक्तापवादविधिमाह- पयत्त'त्ति सूत्रं, 'प्रयत्नपक्व' मिति वा प्रयत्नक्वमेतत् 'पक्वं' सहस्त्रपाकादि ग्लानप्रयोजन एवमालपेत् तथा 'प्रयत्नच्छिन्न मिति वा प्रयत्नच्छिन्नमेतत् 'छिन्नं' वनादि साधुनिवेदनाद्रौ एवमालपेत् तथा 'प्रयत्नलष्टे'ति वा प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक् पालनीयेत कर्महेतुक मिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा 'गाढप्रहार'मिति वा कञ्चन गाढमालपेत्-गाढप्रहारंब्रूयात् क्वचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्तीति सूत्रार्थः ॥ मू.(३३६) सव्वुक्कसं परग्धं वा, अउलं नत्थि एरिसं।
अविक्किअमवत्तव्यं, अचिअतं चेव नो वए। वृ.क्वचिद्वयवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं ब्रूयादित्याह-'सब्बुक्कसं'ति सूत्रं, एतन्मध्य इदं 'सर्वोत्कृष्ठं' स्वभावेन सुन्दरमित्यर्थः, 'परार्धं वा' उत्तमाधु वा महाधु क्रीतमिति भावः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284