Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 222
________________ - - अध्ययनं-८, उद्देशकः - [नि.३०९] २१९ ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह- कृत्स्नाभ्रपुटापगम इव चन्द्रमा इति' यथा कृत्स्ने कृष्णे वा अभ्रपुटे अपगते सति चन्द्रो विराजते शरदि तद्वदसावपेतकर्मधनः समासादितकेवलालोको विराजत इति सूत्रार्थः ।। ब्रवीमिति पूर्ववत्, उक्तोऽनुगम, साम्प्रतं नयाः, ते च पूर्ववदेव ।। अध्ययनं -८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रे अष्टमअध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्ति एवं हरिभद्रसूरि विरचिता टीका परिसमाप्ता (अध्ययनं - ९ विनयसमाधिः । व. अधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धःइहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितो यथोचित्तविनयसंपन्न एव भवतीत्येतदुच्यते, उक्तं च - "आयारपणिहाणंमि, से सम्मं वट्टई बुहे। नाणादीण विनीए जे, मोक्खट्ठा निव्विगिच्छए।" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः तत्र च विनयसमाधिरिति द्विपदं नाम, तन्निक्षेपामाहनि. [३१०] विनयस्स समाहीए निक्खेवो होइ दोण्हवि चउक्को। दव्वविनयंमि तिणिसो सुवण्णमिच्चेवमाईणि॥ वृ. विनयस्य' प्रसिद्धतत्त्वस्य 'समाधेश्च' प्रसिद्धतत्त्वस्यैव निक्षेपो-न्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह-द्रव्यविनये ज्ञशरीरभव्यशरीरव्यतिरिक्ते 'तिनिशो' वृक्षविशेष उदाहरणं, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिणमति, योग्यत्वादिति । तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनाद्व्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः ।। साम्प्रतं भावविनयमाहनि. ३११] लोगोवयारविनओ अत्थनिमित्तं च कामहेउं च । भयविनय मुक्खविनओ विनओ खलु पंचहा होइ॥ नि. [३१२] अब्भुट्ठाणं अंजलि आसनदानं अतिहिपूआ य । लोगोवयारविनओ देवयपूआ य विहवेणं ।। नि.[३१३] अब्भासवित्तिछंदाणुवत्तणं देसकालदानं च। अब्भुट्ठाणं अंजलिआसनदानं च अत्थकए। नि. [३१४] एमेव कामविनओ भए अनेअव्वमानुपुव्वीए । मोक्खंमिऽवि पंचविहो परूवणा तस्सिमा होइ॥ व.लोकोपचारविनयो लोकप्रतिपत्तिफल: 'अर्थनिमित्तं च' अर्थप्राप्त्यर्थं च 'कामहेतश्च' कामनिमित्तश्च तथा 'भयविनयो' भयनिमित्तो 'मोक्षविनयो' मोक्षनिमित्तः, एवमुपाधि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284