Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 223
________________ २२० भेदाद्विनयः खलु 'पञ्चधा' पञ्चप्रकारो भवतीति गाथासमासार्थः ॥ व्यासार्थाभिधित्सया तु लोकोपचारविनयमाह - 'अभ्युत्थानं' तदुचितस्यागतस्याभिमुखमुत्थान् 'अञ्जलिः' विज्ञापनादौ, आसनदानं च गृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः देवतापूजा च यथाभक्ति बल्याद्युपचाररूपा 'विभवे'त्ति यथाविभवं विभवोचितेति गाथार्थः ॥ दशवैकालिक - मूलसूत्र - ९/-/ ४१५ उक्तो लोकोपचारविनयः, अर्थविनयमाह-'अभ्यासवृत्तिः ' नरेन्द्रादीनां समीपावस्थानं 'छन्दोऽनुवर्तनम्' अभिप्रायाराधनं 'देशकालदानं च' कटकादौ विशिष्टनृपतेः प्रस्तावदानं, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति 'अर्थकृते' अर्थार्थमिति गाथार्थः ॥ उक्तोऽर्थविनयः, कामादिविनयमाह- 'एवमेव' यथाऽर्थविनय उक्तोऽभ्यासवृत्त्यादिः तथा कामविनयः 'भये चे 'ति भयविनयश्च 'ज्ञातव्यो' विज्ञेयः 'आनुपूर्व्या' परिपाट्य, तथाहिकामिनो वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्वं कुर्वन्ति प्रेष्याश्च भयेन स्वामिनामिति, उक्तौ कामभयविनयौ, मोक्षविनयमाह - 'मोक्षेऽपि' मोक्षविषयो विनयः पञ्चप्रकार: ‘प्ररूपणा' निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः ।। नि. [३१५] नि. [३१६] दंसणनाणचरिते तवे अ तह ओवयारिए चेव । एसो अ मोक्खविनओ पंचविहो होइ नायव्वो ॥ दव्वाण सव्वभावा उवइंट्ठा से जहा जिनवरेहिं । ते तह सद्दहइ नरो दंसणविनओ हवइ तम्हा ॥ सिक्ख नाणं गुणेइ कुणइ किच्चाई । नाणी नवं न बंध नाणविनीओ हवइ तम्हा ॥ अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमनं च न बंधइ चरित्तविनओ हवइ तम्हा ॥ नि. [३१७] नि. [३१८] नि. [३१९] अवणेइ तवेण तमं उवणेइ अ सग्गमोक्खमप्पाणं । तवविनयनिच्छमई तवोविनीओ हवइ तम्हा ॥ नि. [३२०] अह ओवयारिओ पुण दुविहो विनओ समासओ होइ । पडिरूवजोगजुंजण तह य अणासायणाविनओ ॥ नि. [३२१] पडिरूवो खलु विनओ काइअजोए य वाइ मानसिओ । अट्ठ चउव्विह दुविहो परूवणा तस्सिमा होइ ॥ नि. [ ३२२] अब्भुट्ठाणं अंजलि आसनदानं अभिग्गह किई अ । सुस्सूसणमणुगच्छण संसाहण काय अट्ठविहो ॥ नि. [३२३] हिअमिअअफरुसवाई अनुवीईभासि वाइओ विनओ । अकुसलचित्तनिरोहो कुसलमणउदीरणा चेव ॥ वृ. 'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषय: 'तपसि च' तपोविषयश्च तथा 'औपचा रिकश्चैव' प्रतिरूपयोगव्यापारश्चैव, एष तु मोक्षविनयो - मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः ॥ व्यासार्थे दर्शनविनयमाह - 'द्रव्याणां ' धर्मास्तिकायादीनां 'सर्वभावाः' www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284