________________
२२०
भेदाद्विनयः खलु 'पञ्चधा' पञ्चप्रकारो भवतीति गाथासमासार्थः ॥
व्यासार्थाभिधित्सया तु लोकोपचारविनयमाह - 'अभ्युत्थानं' तदुचितस्यागतस्याभिमुखमुत्थान् 'अञ्जलिः' विज्ञापनादौ, आसनदानं च गृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः देवतापूजा च यथाभक्ति बल्याद्युपचाररूपा 'विभवे'त्ति यथाविभवं विभवोचितेति गाथार्थः ॥
दशवैकालिक - मूलसूत्र - ९/-/ ४१५
उक्तो लोकोपचारविनयः, अर्थविनयमाह-'अभ्यासवृत्तिः ' नरेन्द्रादीनां समीपावस्थानं 'छन्दोऽनुवर्तनम्' अभिप्रायाराधनं 'देशकालदानं च' कटकादौ विशिष्टनृपतेः प्रस्तावदानं, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति 'अर्थकृते' अर्थार्थमिति गाथार्थः ॥
उक्तोऽर्थविनयः, कामादिविनयमाह- 'एवमेव' यथाऽर्थविनय उक्तोऽभ्यासवृत्त्यादिः तथा कामविनयः 'भये चे 'ति भयविनयश्च 'ज्ञातव्यो' विज्ञेयः 'आनुपूर्व्या' परिपाट्य, तथाहिकामिनो वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्वं कुर्वन्ति प्रेष्याश्च भयेन स्वामिनामिति, उक्तौ कामभयविनयौ, मोक्षविनयमाह - 'मोक्षेऽपि' मोक्षविषयो विनयः पञ्चप्रकार: ‘प्ररूपणा' निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः ।।
नि. [३१५]
नि. [३१६]
दंसणनाणचरिते तवे अ तह ओवयारिए चेव । एसो अ मोक्खविनओ पंचविहो होइ नायव्वो ॥ दव्वाण सव्वभावा उवइंट्ठा से जहा जिनवरेहिं । ते तह सद्दहइ नरो दंसणविनओ हवइ तम्हा ॥ सिक्ख नाणं गुणेइ कुणइ किच्चाई । नाणी नवं न बंध नाणविनीओ हवइ तम्हा ॥ अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमनं च न बंधइ चरित्तविनओ हवइ तम्हा ॥
नि. [३१७]
नि. [३१८]
नि. [३१९] अवणेइ तवेण तमं उवणेइ अ सग्गमोक्खमप्पाणं । तवविनयनिच्छमई तवोविनीओ हवइ तम्हा ॥
नि. [३२०] अह ओवयारिओ पुण दुविहो विनओ समासओ होइ । पडिरूवजोगजुंजण तह य अणासायणाविनओ ॥
नि. [३२१] पडिरूवो खलु विनओ काइअजोए य वाइ मानसिओ । अट्ठ चउव्विह दुविहो परूवणा तस्सिमा होइ ॥
नि. [ ३२२] अब्भुट्ठाणं अंजलि आसनदानं अभिग्गह किई अ । सुस्सूसणमणुगच्छण संसाहण काय अट्ठविहो ॥
नि. [३२३] हिअमिअअफरुसवाई अनुवीईभासि वाइओ विनओ । अकुसलचित्तनिरोहो कुसलमणउदीरणा चेव ॥
वृ. 'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषय: 'तपसि च' तपोविषयश्च तथा 'औपचा रिकश्चैव' प्रतिरूपयोगव्यापारश्चैव, एष तु मोक्षविनयो - मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः ॥ व्यासार्थे दर्शनविनयमाह - 'द्रव्याणां ' धर्मास्तिकायादीनां 'सर्वभावाः'
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only