SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-९, उद्देशकः - [नि. ३२३] २२१ सर्वपर्यायाः 'उपदिष्टाः' कथिता 'ये' अगुरुलध्वादयो 'यथा' येन प्रकारेण 'जिनवरैः' तीर्थकरैः 'तान्' भावान् 'तथा' तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्मा-दर्शनविनयो भवती तस्माद्, दर्शनाद्विनयो दर्शनविनय इति गाथार्थः ।। ज्ञानविनयमाह-'ज्ञानं शिक्षति' अपूर्व ज्ञानमादत्ते, 'ज्ञानं गुणयति' गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोति कृत्यानि' संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बन्धाति प्राक्तनं च विनयति यस्मात् 'ज्ञानविनीतो' ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः॥ चारित्रविनयमाह-'अष्टविधम्' अष्टप्रकारं 'कर्मचयं' कर्मसंघातं प्राग्बद्धं यस्माद् 'रिक्तं करोति' तुच्छतापादनेनापनयति 'यतमानः' क्रियायां यत्नपरः तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् 'चारित्रविनय' इति चारित्राद्विनयश्चारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः ।। तपोविनयमाह-अपनयति तपसा 'तमः' अज्ञानम् उपनयति च स्वर्ग मोक्षम् 'आत्मानं' जीवं तपोविनयनिश्चयमतिः, यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः ।। उपचार-विनयमाह-अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाहप्रतिरूपयोगयोजनं तथाऽनाशातनाविनय इति गाथासमासार्थः ।। ___ व्यासार्थमाह-'प्रतिरूपः' उचितः खलु विनयस्त्रिविधः, 'काययोगे च वाचि मानसः' कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः, कायिकोऽष्टविध: वाचिकश्चतुर्विधः मानसो द्विविधः । प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः ।। __कायिकमाह-अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदानं, पीठकाद्युपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसंधिः, कृतिश्चे'ति कृतिकर्मवन्दनमित्यर्थः, 'शुश्रूषणं' विधिवददूरासन्नतया सेवनं, अनुगमनम्' आगच्छतः प्रत्युद्गमनं, 'संसाधनं च' गच्छतोऽनुव्रजनं चाष्टविधः कायविनय इति गाथार्थः॥ वागादिविनयमाह-'हितमितापरुषवा'गिति हितवाक्-हितं वक्ति परिणामसुन्दरं, मितवाग्मितं स्तोकैरक्षरेः, अपरुषवागपुरुषम्-अनिष्ठुरं, तथा 'अनुविचिन्त्यभाषी' स्वालोचितवक्तेति वाचिको विनयः । तथा अकुशलमनोनिरोध: आर्तध्यानादिप्रतिषेधेन, कुशलमनउदीरणं चैव धर्मध्यानादि-प्रवृत्त्येति मानस इति गाथार्थः ।। आह-किमर्थमयं प्रतिरूपविनयः?, कस्य चैष इति?, उच्यतेनि. [३२४] पडिरूवो खलु विनओ पराणुअत्तिमइओ भुणेअव्वो । . अप्पडिरूवो विनवो नायव्वो केवलीणं तु ।। नि. [३२५] एसो मे परिकहिओ विनओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणकबेंति अनासयणाविनयं ।। नि. [३२६] तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं । ___ आयरिअथेरओज्झागणीणं तेरस पयाणि ।। नि. [३२७] अनसायणा य भत्ती बहुमानो तहय वनसंजलणा। तित्थगराई तेरस चउग्गुणा होति बावन्ना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy