________________
२२२
दशवैकालिक - मूलसूत्र - ९ /-/ ४१५ वृ. 'प्रतिरूप: ' उचितः खलु विनयः 'परानुवृत्त्यात्मकः ' तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्त्यात्मको मन्तव्यः । अयं च बाहुल्येन छद्मस्थानां । तथा 'अप्रतिरूपो विनयः' अपरानुवृत्त्यात्मकः, स च ज्ञातव्यः केवलिनामेव, तेषां तेनैव प्रकारेण कर्मविनयनात्, तेषामपीत्वरः प्रतिरूपोऽज्ञातकेवल भावानां भवत्येवेति गाथार्थः ॥
उपसंहरन्नाह - 'एषः ' अनन्तरोदितो 'भे' भवतां परिकथितो विनयः प्रतिरूपलक्षणः 'त्रिविधः ' कायिकादिः 'द्विपञ्चाशद्विधिविधानम्' एतावत्प्रभेदमित्यर्थः 'ब्रुवते' अभिदधति तीर्थकरा 'अनाशातनाविनयं' वक्ष्यमाणमिति गाथार्थः ॥
एतदेवाह - तीर्थकरसिद्धकुलगणसङ्घक्रिया-धर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीना त्रयोदश पदानि अत्र तीर्थकरसिद्धौ प्रसिद्धौ, कुलं नागेन्द्रकुलादि, गणः कोटिकादि:, सङ्घः प्रतीतः, क्रियाऽस्तिवादरूपा, धर्मः श्रुतधर्मादि, ज्ञानं मत्यादि, ज्ञानिनस्तद्वन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतु:, उपाध्यायः प्रतीतः, गणाधिपतिर्गणिरिति गाथार्थः ॥ एतानी त्रयोदश पदानि अनाशातनादिभिश्चतुर्भिर्गुणितानि द्विपञ्चाशद्भवन्तीत्याह- अनाशातना च तीर्थकरादीनां सर्वथा अहीलनेत्यर्थः, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूप:, तथा च वर्णसंज्वलना- तीर्थकरादीनामेव सद्भूतगुणोत्कीर्तना ।
एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन भवन्ति द्विपञ्चाशभेदा इति गाथार्थः ॥ उक्तो विनयः, साम्प्रतं समाधिरुच्यते, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिसमाधिमाह
नि. [३२८ ] दव्वं जेण व दव्वेण समाही आहिअं च जं दव्वं ।
भावसमाहि चउव्विह दंसणनाणे तवचरिते ॥
1
वृ. 'द्रव्य 'मिति द्रव्यमेव समाधिः द्रव्यसमाधिः यथा मात्रकम् अविरोधि वा क्षीरगुडादि तथा येन वा द्रव्येणोपयुक्तेन समाधिस्त्रिफलादिना तद् द्रव्यसमाधिरिति । तथा आहितं वा यद्रव्यं समतां करोति तुलारोपितपलशतादिवत्स्वस्थाने तद् द्रव्यं समाधिरिति । उक्तो द्रव्यसमाधिः, भावसमाधिमाह-'भावसमाधिः ' प्रशस्त भावाविरोधलक्षणश्चतुर्विधः, चातुर्विध्यमेवाह-दर्शनज्ञानतपश्चारित्रेषु । एतद्विषयो दर्शनादीनां व्यस्तानां समस्तानां वा सर्वथाऽविरोध इति गाथार्थः ॥ उक्तः समाधिः, तदभिधानान्नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पनस्यावसर इत्यादिचर्चः पूर्ववत् तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, -: अध्ययनं - ९ उद्देशक - १ --
मू. (४१५ ) थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विनयं न सिक्खे | सो चेव उ तस्स अभूइभावो, फलं व कीअस्स वहाय होइ ॥
वृ. 'थंभा व 'त्ति, अस्य व्याख्या- 'स्तम्भाद्वा' मानाद्वा जात्यादिनिमित्तात् 'क्रोधाद्वा' अक्षान्तिलक्षणात् 'मायाप्रमादा' दिति मायातो- निकृतिरूपायाः प्रमादाद्-निद्रादेः सकाशात्, 'किमित्याह-'गुरोः सकाशे' आचार्यादेः समीपे 'विनयम्' आसेवनाशिक्षाभेदभिन्नं 'न शिक्षते' नोपादत्ते, तत्र स्तम्भात्कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org