________________
अध्ययनं - ९, उद्देशक: - १. [ नि. ३२८]
२२३
प्रमादा
क्रोधात्क्वचिद्वितथकरणचोदितो रोषाद्वा, मायातः शूलं मे क्रियत इत्यादिव्याजेन, त्प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदैवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति - गुरोः सकाशे 'विनये न तिष्ठति' विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह च' स एव तु' स्तम्भादिर्विनयशिक्षाविघ्नहेतुः 'तस्य' जडमते: 'अभूतिभाव' इति अभूतेर्भावोऽभूतिभाव:, असंपद्भाव इत्यर्थः, किमित्याह- 'वधाय भवति' गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह- 'फलमिव कीचकस्य' कीचको वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात्, तद्वदिति सूत्रार्थः ॥
मू. (४१६ ) जे आवि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा, करंति आसायण ते गुरूणं ॥
वृ. किं च- 'जे आवि'त्ति सूत्रं, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किमित्या -ह'मन्द इति गुरु विदित्वा' क्षयोपशमवैचित्र्यात्तन्त्रयुक्तलोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्यं ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं 'डहरोऽयम्' अप्राप्तवयाः खल्वयं, तथा 'अल्पश्रुत' इत्यनधीतागम इति विज्ञाय किमित्याह - 'हीलयन्ति' सूययाऽसूयया वा खिसयन्ति, सूयया अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, 'मिथ्यात्वं प्रतिपद्यमाना' इति गुरुर्न हीलनीय इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति 'आशातनां' लघुतापादनरूपां 'ते' द्रव्यसाधवः 'गुरूणाम्' आचार्याणां, तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषाकाशातनेति बहुवचनम्, अथवा कुर्वन्ति 'आशातनां' स्वसम्यग्दर्शनादिभावापहासरूपां ते गुरूणां संबन्धिनीं, तन्निमित्तत्वादिति सूत्रार्थः ॥
मू. (४१७ ) पगईई मंदावि भवंति एगे, डहरावि अ जे सुअबुद्धोववेआ । आयारमंतो गुणसुट्ठिअप्पा, जे हीलिआ सिहिरिव भास कुज्जा ॥
वृ. अतो न कार्या हीलनेति, आह च- 'पगइ' त्ति सूत्रं, 'प्रकृत्या' स्वभावेन कर्मवैचित्र्यात् 'मन्दा अपि' सद्बुद्धिरहिता अपि भवन्ति 'एके' केचन वयोवृद्धा अपि तथा 'डहरा अपि च' अपरिणता अपि च वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये च 'श्रुतबुद्धयुपपेताः ' तथा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा, भाविनीं वृत्ति- माश्रित्याल्पश्रुता इति, सर्वथा 'आचारवन्तो' ज्ञानाद्याचारसमन्विताः 'गुणसुस्थितात्मानो' गुणेषु-संग्रहोपग्रहादिषु सुष्ठु - भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये 'हीलिता:' खिसिताः 'शिखीव' अग्निरिवेन्धनसंघातं 'भस्मसात्कुर्युः ' ज्ञानादिगुणसंघातमपनयेयुरिति सूत्रार्थः ॥
मू. (४१८ ) जे आवि नागं डहरंति नच्चा, आसायए से अहिआय होइ । एवायरिअपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ॥
वृ.विशेषेण डहरहीलनादोषमाह - 'जे आवि'त्ति सूत्रं, यश्चापि कश्चिदज्ञो 'नागं' सर्पं ' डहर इति' बाल इति 'ज्ञात्वा' विज्ञाय 'आशातयति' किलिञ्चादिना कदर्थयति 'स' कदर्थ्यमानो नागः 'से' तस्य कदर्थकस्य 'अहिताय भवति' भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तो ऽयमर्थोपनयः - एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गच्छति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International