________________
२२४
दशवैकालिक-मूलसूत्र-९/१/४१८ 'जातिपन्थानं' द्वीन्द्रियादिजातिमार्ग 'मन्दः' अज्ञः, संसारे परिभ्रमतीति सूत्रार्थः ।। मू.(४१९)आसीविसो वावि परं सुरुट्ठो, किं जीवनासाउ परं न कुज्जा? ।
आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो । वृ. अत्रैव दृष्टान्तदा न्तिकयोर्महदन्तरमित्येतदाह-'आसि'त्ति सूत्रं, 'आशीविषश्चापि' सर्पोऽपि परं 'सुरुष्टः' सुक्रुद्धः सन् किं 'जीवितनाशात्' मृत्योः परं कुर्यात् ?, न किंचिदपीत्यर्थः, आचार्यपादाः पुनः ‘अप्रसन्ना' हीलनयाऽननुग्रहे प्रवृत्ताः, किं कुर्वन्तीत्याह'अबोधि' निमित्तहेतुत्वेन मिथ्यात्वसंहति, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमत आशातनया गुरोर्नास्ति मोक्ष इति, अबोधिसंतानानुबन्धेनानन्तरसंसारिकत्वादिति सूत्रार्थः॥ मू.(४२०)जो पावगं जलिअमवक्कमिज्जा, आसीविसं वावि हु कोवइज्जा।
जो वा विसं खाई जीविअट्ठी, एसोवमाऽऽसायणया गुरूणं॥ वृ. किं च-'जो पावगं'ति सूत्रं, यः 'पावकम्' अग्निं ज्वलितं सन्तम्, 'अपकामेद्' अवष्टभ्य तिष्ठति, 'आशीविषं वापि हि' भुजङ्गमं वापि हि 'कोपयेत्' रोषं ग्राहयेत्, यो वा विषं स्वादति 'जीवितार्थी' जीवितुकामः, एषोपमा' अपायप्राप्ति प्रत्येतदुपमानम्, आशातनया कृतया गुरूणां संबन्धिन्या तद्वदपायो भवतीति सूत्रार्थः ।। मू. (४२१)सिआ हु से पावय नो डहिज्जा, आसीविसो वा कुविओ न भक्खे।
सिआ विसं हालहलं न मारे, न आवि मुक्खो गुरुहीलणाए॥ वृ.अत्र विशेषमाह-'सिआ हु'त्ति सूत्रं, 'स्यात्' कदाचिन्मन्त्रादिप्रतिबन्धादसौ 'पावकः' अग्निः 'न दहेत्' न भस्मसात्कुर्यात्, 'आशीविषो वा' भुजङ्गो वा कुपितो 'न भक्षयेत्' न स्वादयेत्, तथा 'स्यात्' कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलम्' अतिरौद्रं 'न मारयेत्' न प्राणांस्त्याजयेत्, एवमेतत्कदाचिद्भवति न चापि मोक्षो 'गुरुहीलनया' गुरोराशातनया कृतया भवतीति सूत्रार्थः ॥ मू.(४२२) जो पव्वयं सिरसा भित्तुमिच्छे, सुत्त व सीहं पडिबोहइज्जा।
जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसायणया गुरूणं॥ वृ.किंच-'जो पव्वयं'ति सूत्रं, यः पर्वतं 'शिरसा' उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंह गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति 'शक्त्यग्रे' प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदेवेति सूत्रार्थः॥ मू. (४२३) सिआ हु सीसेण गिरिपि भिंदे, मिआ हु सीहो कुविओ न भक्खे।
सिआ न भिंदिज्ज व सत्तिअग्गं, न आवि मुक्खो गुरुहीलणाए । वृ.अत्र विशेषमाह-'सिआ हु'त्ति सूत्रं, 'स्यात्' कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा 'गिरिमपि' पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न भक्षयेत्, स्याद्देवतानुग्रहादेन भिन्द्याद्वा शक्त्यग्रं प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवत्ति, न चापि मोक्षो 'गुरुहीलनया' गुरोराशातनया भवतीति सूत्रार्थः ।। मू. (४२४ )आयरिअपाया पुण अप्पसन्ना, अबोहिआसायाण नत्थि मुक्खो।
तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org