________________
अध्ययनं-९, उद्देशकः-१. नि. ३२८]
२२५ वृ.एवं पावकाद्याशातनाया गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह-'आयरिअ'त्ति सूत्रं, आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्धं पूर्ववत्, यस्मादेवं तस्माद् 'अनाबाधसुखाभिकाङ्की' मोक्षसुखाभिलाषी साधुः 'गुरुप्रसादाभिमुखः' आचार्यादिप्रसाद उद्युक्तः सन् 'रमेत' वर्तेत इति। मू.(४२५) जहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं।
एवायरिअं उवचिट्ठइज्जा, अनंतनाणोवगओऽवि संतो।। वृ.केन प्रकारेणेत्याह-'जहाहिअग्गि'त्ति सूत्रं, यथा 'आहिताग्निः' कृतावसथा-दिाह्मणो 'ज्वलनम्' अग्नि नमस्यति, किंविशिष्टमित्याह-'नानाहुतमन्त्रपदाभिषिक्तं' तत्रा-हुतयोधृतप्रेक्षपादिलक्षणा मन्त्रपदानि अग्नये स्वाहेत्येवमादीनि तैरभिषिक्तं-दीक्षा-संस्कृतमित्यर्थः, 'एवम्' अग्निमिवाचार्यम् ‘उपतिष्ठेत्' विनयेन सेवेत, किंविशिष्ट इत्याह
'अनन्तज्ञानोपगतोऽपी'ति अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति सूत्रार्थः ।। मू. (४२६) जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणइयं पउंजे।
सकारए सिरसा पंजलीओ, कायग्गिरा भो मनसा अनिच्चं॥ वृ.एतदेव स्पष्टयति-'जस्स'त्ति सूत्रं, 'यस्यान्तिके' यस्य समीपे 'धर्मपदानि' धर्मफलानि सिद्धान्तपदानि 'शिक्षेत' आदद्यात् 'तस्यान्तिके' तत्समीपे किमित्याह-'वैनयिकं प्रयुञ्जीत' विनय एंव वैनयिकं तत्कुर्यादिति भावः, कथमित्याह-सत्कारयेदभ्युत्थानादिना पूर्वोक्तेन 'शिरसा' उत्तमाङ्गेन 'प्राञ्जलिः' प्रोद्गताञ्जलिः सन् ‘कायेन' देहेन 'गिरा' वाचा मस्तकेन वन्दे इत्यादिरूपया भो' इति शिष्यामन्त्रणं मनसा च' भावप्रतिबन्धरूपेण 'नित्यं' सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः ।। मू.(४२७) लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं।
जे मे गुरू सययमनुसासंयति, तेऽहंगुरू सययं पूअयामि। वृ. एवं च मनसि कुर्यादित्याह-'लज्जा दय'त्ति सूत्रं, 'लज्जा' अपवादभयरूपा 'दया' अनुकम्पा 'संयमः' पृथिव्यादिजीवविषय: 'ब्रह्मचर्य' विशुद्धतपोऽनुष्ठानम्, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो जीवस्य 'विशोधिस्थानं' कर्ममलापनयनस्थानं वर्त्तते, अनेन ये मां 'गुरव' आचार्याः 'सततम्' अनवरतम् 'अनुशासयन्ति' कल्याणयोग्यतां नयन्ति तानहमेवंभूतानं गुरून् सतत पूजयामि, न तेभ्योऽन्यः पूजार्ह इति। मू.(४२८) जहा निसंते तवणच्चिमाली, पभासई केवल भारहंतु।
एवायरिओ सुअसीलबुद्धिए, विरायई सुरमज्झे व इंदो। वृ.इतश्चैते पूज्या इत्याह-'जह'त्ति सूत्रं, यथा 'निशान्ते' रात्र्यवसाने दिवस इत्यर्थः, तपन् 'अर्चिालीवाचार्यः 'श्रुतेन' आगमेन 'शीलेन' परद्रोहविरतिरूपेण 'बुद्ध्या च' स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते 'सुरमध्य इव' सामानिकादिमध्यगत इव इन्द्र इति सूत्रार्थः ॥
मू. (४२१) जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा। 27/15
For Private & Personal Use Only
जमगुरु
Jain Education International
www.jainelibrary.org