Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१९९
अध्ययनं-७, उद्देशकः - [नि. २९३] यन्त्रयष्टवे वा, यन्त्रयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्ग, गण्डिकायै वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) स्थापनी भवतीति सूत्रार्थः ।। मू. (३२२) आसनं सयनं जाणं, हुज्जा वा किंचुवस्सए।
भूओवघाइणि भासं, नेवं भासिज्ज पनवं। वृ. तथा 'आसनं'ति सूत्रं, 'आसनम्' आसन्दकादि ‘शयनं' पर्यङ्कादि ‘यानं' युग्यादि भवेद्वा किञ्चदुपाश्रये-वसतावन्यद्-द्वारपात्राद्येतेषुवृक्षेष्विति भूतोपघातिनी' सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञाान् साधुरिति सूत्रार्थः ।। दोषाश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः ।। मू. (३२३) तहेव गंतुमुज्जाणं, पव्वयाणि वनानि ।
रुक्खा महल पेहाए, एवं भासिज्ज पन्नवं॥ वृ.अत्रैव विधिमाह-'तहेव'त्ति सूत्रं, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ।। मू.(३२४) जाइमंता इमे रुकंखा, दीहवट्टा महालया।
पयायसाला विडिमा, वए दरिसणित्ति अ। वृ.'जाइमंत'त्ति सूत्रं, 'जातिमन्तः' उत्तमजातयोऽशोकादयः अनेकप्रकारा 'एत' उपलभ्यमानस्वरूपया वृक्षा दीर्घवृत्ता महालया:' दीर्घा नालिकेरीप्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः 'प्रजातशाखा' उत्पन्नडाला 'विटपिनः' प्रशाखावन्तो वदेदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वदेन्नान्यदेति सूत्रार्थः ।। मू. (३२५) तहा फलाइं पक्काई, पायखज्जाइं नो वए।
वेलोइयाइं टालाइं, वेहिमाइ त्ति नो वए। वृ.'तहा फलाणि'त्ति सूत्रं, तथा 'फलानि' आम्रफलादीनि 'पक्वानि' पाकप्राप्तानि तथा 'पाकस्वाद्यानि' बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत्। तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'यलानि' अबद्धास्थीनि कोमलानीति तदुक्तं भवति, तथा 'द्वैधिकानी'त्ति पेशीसंपादनेन द्वैधीभावकरणयोग्यानीति नो वदेत् । दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां न शोभनानि वा प्रकारान्तर भोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः ।। मू. (३२६) असंथडा इमे अंबा, बहुनिव्वडिमाफला।
वइज्ज बहुसंभूआ, भूअरूवत्ति वा पुणो । वृ. प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह-'असंथड'त्ति सूत्रं, असमर्था 'एते' आम्राः, अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षणम्, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफला:' बहूनि निर्वतितानि-बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदेद् ‘बहुसंभूताः' बहूनि संभूतानि-पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत्, भूतानि रूपाणी-अबद्धास्थीनि कोमलफलस्वरूपाणि येषु ते तथा, अनेन टालद्यर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284