Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-४, उद्देशकः - [नि.२३३]
१२७ अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकाय: त्रसकाय प्रोच्यत इति योगः, तत्राण्डाज्जाता , अण्डजाः-पक्षिगृहकोकिलादयः, पोता एवजायन्त इति पोतजाः, "अन्येष्वपिदश्यते"ऽप्रत्ययो जनेरिति वचनात्।
ते च हस्तिवल्गुलीचर्मजलौकाप्रभुतयः, जरायुवेष्टिता जायन्त इति जरायुजा-गोमहिष्यजाविकमनुष्यादयः, अत्रापि पूर्ववड्डप्रत्ययः, रसाज्जाता रसजा:-तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजा-मत्कुणयूकाशतपदीकादयः, संमूर्च्छनाज्जाताः संमूर्छनजाः-शलभपिपीलिकामक्षिकाशालूकादयः, उद्देवाज्जन्म येषां ते उद्भेदाः, अथवा उद्भेदनमुद्भित् उद्भिज्जन्मयेषां ते उद्भेदा-पतङ्गखञ्जरीटपारिल्ववादयः, उप-- पाताज्जाता उपपातजाः अथवा उपपाते भवाऔपपातिका-देवा नारकाश्च। एतेषामेव लक्षणमाहयेषांकेषाञ्जित्सामान्येनैव प्राणिनां-जीवानामभिक्रान्तं भवतीति वाक्यशेषः, अभिक्रमणमभिक्रान्तं, भावे निष्ठाप्रत्ययः, प्रज्ञापकं प्रत्यभिमुखंक्रमणमित्यर्थः, एवंप्रतिक्रमणंप्रतिक्रान्तं-प्रज्ञापकात्प्रतीपं क्रमणमिति भावः, संकुचनं संकुचितं-गात्रसंकोचकरणं, प्रसारणं प्रसारितं-गात्रविततकरणं, रवणं रुतं-शब्दकरणं, भ्रमणं भ्रान्तम्-इतश्चेतश्च गमनं, त्रसनं त्रस्तं-दुःखादुद्वेजनं, पलायनं पलायितंकृतश्चिन्नाशनं, तथाऽऽगतेः-कुतश्चित्कचित्, गतेश्च-कुतश्चित्कचिदेव, विनाया' विज्ञातारः।
आह-अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्धेह इति किमर्थं भेदेनाभिधानम्?, उच्यते, विज्ञानविशेषख्यापनार्थम्, एतदुक्तं भवति-य एव विजानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न तु वृत्ति प्रत्यभिक्रमणवन्तोऽपि वल्लयादय इति। आह-एवमपि द्वीन्द्रियादीनामत्रसत्वप्रसङ्गः, अभिक्रमणप्रतिक्रमणभावेऽप्येवंविज्ञानाभावात्, नैतदेवं हेतुसंज्ञाया अवगतेः, बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति तेषामभिक्रमणादिभावात्, न चैवं वल्लयादीनामाभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति कृतं प्रसङ्गेन। अधिकृतत्रसभेदानाह'जे ये' इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, 'एकग्रहणे तज्जातीयग्रहण'मिति द्वीन्द्रियाः शङ्कादयोऽपि गृह्यन्ते, पतङ्गा-शलभा, अत्रापि. पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे त्रीन्द्रियाः-कुन्थ्वादयः, सर्वे चतुरिन्द्रियाः-पतङ्गादयः। आह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थम्?, उच्यते, 'विचित्रा सूत्रगतिरतत्रः क्रम' इति ज्ञापनार्थम् सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः, सर्वेनारकारत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजा:-कर्मभूमिजादयः, सर्वे देवा-भवन-वास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एवैते त्रसा: नत्वेकेन्द्रियाइवत्रसाः स्थावराश्चेति, उक्तंच-"पृथिव्यम्बुवनस्पतयः स्थावराः" "तेजोवायू द्वीन्द्रियादयश्च त्रसाः" इति। _ 'सर्वे प्राणिनः परमधर्माण' इति सर्व एते प्राणिनो-द्वीन्द्रियादश्च पृथिव्यादयश्च परमधर्माण इति-अत्र परमं सुखं तद्धर्माणः सुखधर्माणः-सुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डसमारभेतेति योगः। षष्ठंजीवनिकायं निगमयन्नाह-एष खलु-अनन्तरोदितः कीटादिः 'षष्ठो जीवनिकायः' पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य, त्रसकाय इति 'प्रोच्यते' प्रकर्षेणोच्यते सर्वैरेवतीर्थकरणगणधरैरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284