________________
अध्ययनं-४, उद्देशकः - [नि. २३२]
१२५ मृद् उदकस्य स्पर्शरसगन्धादिभिः पाण्डुमुदश्च यदा कृष्णमृदा कलुषितमृदकं भवति तदाऽसौ कृष्णमृद् उदकस्य पाण्डुमृदश्च शस्त्र भवति, एवं(तत)-तु द्रव्यशस्त्रं, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकारं द्रव्यशस्त्रम्, 'भाव' इति द्वारपरामर्शः, असंयमः शस्त्रं चरणस्येति गाथार्थः ।। एवं च परिणतायां पृथ्व्यामुच्चारादिकरणोऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः संभवी साधुधर्म इति। एष तावदागमः, अनुमानमप्यत्र विद्यते-सात्मका विद्रुमलवणोपलादयः पृथिवीविकाराः, समानजातीयाङकुरोत्पत्त्युपलम्भात्, देवदत्तमांसाङ्कुरवत्, एव-मागमोपपत्तिभ्यां व्यवस्थितं पृथिवीकायिकानां जीवत्वम्, उक्तं च -
"आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम्। अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये॥१।।
__ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः।
___वीतरागोऽनृतं वाक्यं, नब्रूयाद्धत्वसंभवात्॥२॥" इत्यलं प्रसङ्गेन। एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् । विशेषस्त्वभिधीयते-सात्मकं जलं, भूमिखातस्वाभाविकसंभवात्, दुर्दरवत्।सात्मकोऽग्निः,आहारेण वृद्धिदर्शनात्, बालकवत्।सात्मकः पवनः, अपरप्रेरिततिर्यग्निगनियमितदिग्गमनाद्, गोवत्। सचेतनस्तरवः, सर्वत्वगपहरणे मरणाद्, गर्दभवत्। वनस्पतिजीवविशेषप्रतिपादनायाह___ 'तंजहा अग्गबीया' इत्यादि, तद्यथेत्युपन्यासार्थः, अग्रबीजा इति-अग्रं बीजं येषां ते अग्रबीजा:-कोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजा-उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा-इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजा:-शल्लक्यादयः, तथा बीजाद्रोहन्तीति बीजरुहाः-शाल्यादयः संमूर्च्छन्तीतिसंमूच्छिमा:-प्रसिद्धबीजाभावेन पृथिवीवर्षादिसमुद्भवास्तथाविधास्तृणादयः, न चैतेन संभवन्ति, दग्धभूमावपिसंभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेकभेदसंदर्शनार्थं, वनस्पतिकायिकग्रहणंसूक्ष्मबादराद्यशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि स्वगताः भेदाः पृथिवीशर्करादयः तथाऽवश्यायमिहिकादयः तथा अङ्गारज्वालादयः, तथा झञ्झामण्डलिकादयो (भेदाः) सूचिता इति। 'सबीजाश्चित्तवन्त आख्याता' इति, एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजाःस्वस्वनिबन्धनाश्चित्तवन्तः-आत्मवन्त आख्याता:-कथिताः। एते च अनेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत्। सबीजाश्चित्तवन्त आख्याता इत्युक्तम्, अत्र च भवत्याशङ्का-किं बीजजीव एव मूलादिजीवो भवत्युतान्यस्तस्मिन्नुकान्ते उत्पद्यते इति?, अस्यव्यपोहायाहनि.[२३३] बीए जोणिन्भूए जीवो वुक्कमइ सो य अन्नो वा।
जोऽवि य मूले जीवो सोऽवि य पत्ते पढमयाए। वृ.बीजे योनिभूते इति, बीजं हि द्विविधं भवति-योनिभूतमयोनिभूतं च, अविध्वस्तयोनि विध्यस्तयोनि च, प्ररोहसमर्थं तदसमर्थं चेत्यर्थः । तत्र योनिभूतं सचेतनमचेतनं च, अयोनिभूतं तु नियमादचेतनमिति। तत्र बीजे योनिभूते इत्यनेनायोनिभूतस्य व्यवच्छेदमाह, तत्रोत्पत्त्यसंभवाद्, अबीजत्वादित्यर्थः । योनिभूते तु-योन्यवस्थे बीजे, योनिपरिणाममत्यजतीयुक्तं भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org