________________
१२६
दशवैकालिक-मूलसूत्रं-४/-/३२ किमित्याह-जीवो व्युत्क्रामिति-उत्पद्यते, स एव-पूर्वको बीजजीवः, बीजनामगोत्रे कर्मणी वेदयित्वा मूलादिनामगोत्रे चोपनिबद्धय, अन्यो वा पृथिवीकायिदिजीव एवमेव, 'योऽपिच मूले जीव' इति य एव मूलतया परिणमते जीवः सोऽपि च पत्रे प्रथमतयेति-स एव प्रथमपत्रतयाऽपि परिणमत इत्येकजीवकर्तृके मूलप्रथमपत्रे इति । आह-यद्येवं 'सव्वोऽवि वकिसलओ खलु उग्गममाणो अनंतओ भणिओ' इत्यादि कथं न विरुध्यते इति ?, उच्यते, इह बीजजीवोऽयो वा बीजमूलत्वेनोत्पद्य तदुच्छ्नावस्थां करोति, ततस्तदनन्तरभाविनी किसलयावस्थां नियमेनानन्तजीवा: कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेष्वसावेवमूलजीवोऽनन्तजीवतर्नुपरिणम्य(मय्य)स्वशरीरतया तायद्वर्धतेयावत्प्रथमपत्रमिति नविरोधः। अन्ये तुव्याचक्षतेप्रथमपत्रकमिहयाऽसौ बीजस्य समुच्छूनावस्था, नियमप्रदर्शनपरमेतत्, शेषं किसलयादिसकलं नावश्यं मूलजीवपरिणामविर्भावितमिति मन्तव्यं, ततश्च सव्वोऽविकिसलओ खलु उग्गमाणो अनंतओ होइ' इत्याद्यप्यविरुद्धं, मूलपत्रनिर्वर्तनारम्भकाले किलसयत्वाभावादिति गाथार्थः।।
एतदेवाह भाष्यकार:भा.[५८] विद्धत्थाविद्धत्था जोणी जीवाणहोइ नायव्वा।
तत्थ अविद्धत्थाए वुक्कमई सो य अन्नो वा॥ वृ.विध्वस्ताऽविध्वस्ता-अप्ररोहप्ररोहसमर्था योनिर्जीवानां भवति ज्ञातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स चान्यो वा, जीव इति गम्यत इति गाथार्थः ।। भा.[५९] जो पुण मूले जीवो सो निव्वत्तेइ जा पढमपत्तं।
कंदाइजाव बीयं सेसं अन्ने पकुव्वंति।। वृ. यः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्वर्तयति यावत् प्रथमपत्रं तावदेक एवेति, अत्रापि भावार्थः पूर्ववदेव । कन्दादि यावद्बीजं शेषमन्ये प्रकृर्वन्ति, वनस्पतिजीवा एव, व्याख्याद्वयपक्षेऽप्येतदविरोधि, एकतः समुच्छूनावस्थाया एव प्रथमपत्रतया विवक्षितत्वात्तदनु कन्दादिभावतः अन्यत्र कन्दादेर्वनस्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थः ॥ अतिदेशमाह- भा.[६०] सेसं सुत्तप्पासंकाए काए अहक्कम बूया।
अज्झयणत्था पंच य पगरणपयवंजणविसुद्धा॥ वृ.शेषं सूत्रस्पर्श उक्तलक्षणं 'काये काये' पृथिव्यादौ 'यथाक्रमं' यथापरिपाटी ब्रूयात् अनुयोगधरएव, न केवलं सूत्रस्पर्शमेव, किंतु अध्ययनार्थान्, पञ्चच-प्रागुपन्यस्तान्जीवाजीवाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान् ब्रूयात्, सूत्र एव जीवाभिगमः काये काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहार्थाधिकारा इति। प्रक्रियन्तऽर्था अस्मिन्निति प्रकरणम्अनेकार्थाधिकारवत्कायप्रकरणादि, पदंसुबन्तादि, कादीनिव्यञ्जनानि, एभिवि-शुद्धानब्रूयादिति गाथार्थः । इदानी त्रसाधिकार एतदाह-'से जे पुण इमे' इति, सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि'ति वचनात्, अथ ये पुनरमी-बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रयादिभेदेन बहवः एकेकस्यां जातौ त्रसाः प्राणिन:-त्रस्यन्तीति त्रसा: प्राणा-उच्छ्वासादय एषां विद्यन्त इति प्राणिनः, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org