Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1927
________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः २ ॥ ९६१ ॥ स्वस्थानं यत्रास्ते बादरपृथिवी कायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः 'जहा ठाणपदे'त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदं, तच्चैवं- 'तंजहा - रयणप्पभाए सकरप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकारा एवं प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः 'अविसेसमणाणत्त'त्ति अविशेषा:- विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अणाणत्त'त्ति अनानात्वाः- नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्येके तेष्वेवेतरेऽपीत्यर्थः 'सबलोयपरियावन्न'त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्त्तन्त इति भावना, तत्रोपपात - उपपाताभिमुख्यं समुद्धात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते । समुद्घातसूत्रे 'वेडबियसमुग्धावति यदुक्तं तद्वायुकायिकानाश्रित्येति ॥ एकेन्द्रियानेव भङ्गचन्तरेण प्रतिपादयन्नाह - 'एगिंदिया ण' मित्यादि, 'तुल्लहिय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः 'तुल्लवसेसाहियं कम्मं पकरेंति'त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण-असत्येयभागादिनाऽधिकं - पूर्वकालबद्ध कर्मापेक्षयाऽधिकतरं तुल्यविशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बनन्ति १ तथा तुल्यस्थितयः 'वेमायविसेसाहियं ति विमात्र:- अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्ये सङ्ख्येयभागरूपोऽन्यस्य सोयभागरूपो यो विशेषस्तेनाधिकं पूर्वकालबद्धकर्म्मापेक्षया यत्तत्तथा २ तथा 'वैमाययि'त्ति विमात्रा- विषममात्रा स्थितिः - आयुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः 'तुलविसेसाहिय'त्ति तथैव, एवं चतुर्थोऽपि, 'तत्थ णं जे ते' इत्यादि, 'समाज्या समोववनग'त्ति समस्थितयः समकमेवोत्पन्ना इत्यर्थः एते च तुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म्म कुर्वन्ति, ते च पूर्वकर्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म्म कुर्वन्ति, यद्यधिकं तदा विशेषाधिकमपि तच्च पर Educatunintentiona For Parts Only ~ 1926 ~ ३४ शतके उद्दे. १ अधः पृथ्व्यादीनामूर्ध्वा दादुत्पाद सू. ८५१ ॥ ९६१ ॥

Loading...

Page Navigation
1 ... 1925 1926 1927 1928 1929 1930 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967