Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1950
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४०], वर्ग [-], अंतर्-शतक [१], उद्देशक [१-११], मूलं [८६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 'वेयणिजवजाणं सत्ताहं पगडीणं बन्धगा वा अबन्धगा वत्ति, इह वेदनीयस्य बन्धविधि विशेषेण वक्ष्यतीतिकृत्वा वेदनीयवर्जानामित्युक्त, तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति यणिज्जस्स बन्धगा नो अबन्धग'त्ति, केवलित्वादारात्सर्वेऽपि सन्ज्ञिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्धकाः 'मोहणिजस्स चेयगा वा अधेयगा वत्ति मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, 'ससाणं सत्तण्हवि वेयगा नो अवेयगत्ति ये किलोपशान्तमोहादयः सज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नो 51 अवेदकाः, केवलिन एव चतसृणां वेदका भवन्ति ते चेन्द्रियव्यापारातीतत्वेन न पंचेन्द्रिया इति । 'सायावेयगा वा असायावेषगा वत्ति, सज्ञिपञ्चेन्द्रियाणामेवस्वरूपत्वात् , 'मोहणिजस्स उदई वा अणुदई वत्ति, तत्र सूक्ष्मसम्परायान्ता मोहनीयस्योदयिनः उपशान्तमोहादयस्त्वनुदयिनः 'सेसाणं सत्तण्हवी'त्यादि, प्राग्वत् , नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन चोदयागतानामनुभवनम् उदयस्त्वनुक्रमागतानामिति । 'नामगोयस्स उदीरगा नो अणुदीरगत्ति, नामगोत्रयोरकषायान्ताः सज्ञिपश्चेन्द्रियाः सर्वेऽप्युदीरकाः, 'सेसाणं छपहवि उदीरगा वा अणुदीरगा 'त्ति शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्च यतोऽयमुदीरणाविधिः प्रमत्तानां सामान्येनाष्टानां, आवलिकावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरकाः, अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वर्जाना पण्णां, तथा सूक्ष्म-18 सम्पराया आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वर्जानां पञ्चानामपि, उपशान्तमोहास्तूक्तरूपाणां पञ्चानामेव क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतयोरेव अयोगिनस्त्वनु ~ 1949~

Loading...

Page Navigation
1 ... 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967