________________
आगम
(०५)
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः २
॥ ९६१ ॥
स्वस्थानं यत्रास्ते बादरपृथिवी कायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः 'जहा ठाणपदे'त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदं, तच्चैवं- 'तंजहा - रयणप्पभाए सकरप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकारा एवं प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः 'अविसेसमणाणत्त'त्ति अविशेषा:- विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अणाणत्त'त्ति अनानात्वाः- नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्येके तेष्वेवेतरेऽपीत्यर्थः 'सबलोयपरियावन्न'त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्त्तन्त इति भावना, तत्रोपपात - उपपाताभिमुख्यं समुद्धात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते । समुद्घातसूत्रे 'वेडबियसमुग्धावति यदुक्तं तद्वायुकायिकानाश्रित्येति ॥ एकेन्द्रियानेव भङ्गचन्तरेण प्रतिपादयन्नाह - 'एगिंदिया ण' मित्यादि, 'तुल्लहिय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः 'तुल्लवसेसाहियं कम्मं पकरेंति'त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण-असत्येयभागादिनाऽधिकं - पूर्वकालबद्ध कर्मापेक्षयाऽधिकतरं तुल्यविशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बनन्ति १ तथा तुल्यस्थितयः 'वेमायविसेसाहियं ति विमात्र:- अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्ये सङ्ख्येयभागरूपोऽन्यस्य सोयभागरूपो यो विशेषस्तेनाधिकं पूर्वकालबद्धकर्म्मापेक्षया यत्तत्तथा २ तथा 'वैमाययि'त्ति विमात्रा- विषममात्रा स्थितिः - आयुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः 'तुलविसेसाहिय'त्ति तथैव, एवं चतुर्थोऽपि, 'तत्थ णं जे ते' इत्यादि, 'समाज्या समोववनग'त्ति समस्थितयः समकमेवोत्पन्ना इत्यर्थः एते च तुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म्म कुर्वन्ति, ते च पूर्वकर्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म्म कुर्वन्ति, यद्यधिकं तदा विशेषाधिकमपि तच्च पर
Educatunintentiona
For Parts Only
~ 1926 ~
३४ शतके उद्दे. १ अधः पृथ्व्यादीनामूर्ध्वा
दादुत्पाद
सू. ८५१
॥ ९६१ ॥