Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 15
________________ [६-८] ८. १. २. ३. ४. ५. ६. ७. ८. आभाणकजगन्नाथः १. २. ३. ४. सुलभ्यः सार्वभौमः खलपूनां पादसंवाहकः । [१०४ ] ७. अतिभाषणम् । कथां कृत्वा व्यथां विस्तारयति । कथायाः शृङ्गमपि नास्ति, लाङ्गूलमपि नास्ति । कुवित् कत्थते कुत्सितं श्रन्थते । परवार्तेव वाचाटानां विश्वम् । परुषवचनानां प्रतिपदं प्रतिपक्षाः । वाग्यतो वर्तमानानां पुरस्ताद्वाचाटानां नरकदर्शनम् । वाचाटानां बहुकपटानां बहुलं शूषं गच्छति शोषम् । शृगालस्यापेक्षया लाङ्गलमेव दीर्घतरम् । [११२] ८. मौनम् असति ज्ञाने मौनेन मानः । कदाचिन्मौनेन कृपीटयोनिर्ज्वलति । मौनवीरा मेरुं गिलन्ति । मौनव्रते सति किमर्थं मण्डूकेन सख्यम् ? ५. मौनेन कनकाभिषेकोऽपि, कर्दमाभिषेकोऽपि । ६. मौनेन मानो न मीयते । ६.८.खलपूनां-सम्मार्जन्या मालिन्यपरिमार्जकानाम् । ७.३. कुवित्-बहु । वैदिकोऽयं शब्दः । श्रन्थते शैथिल्यमाप्नोति । ७.६. वाग्यतः - मौनेन । ७. ७. शूषं बलम् । वैदिकोऽयं शब्दः । ८.२. कृपीटयोनि:-अग्निः । लक्षणया क्रोधः । मौनं क्रोधस्य कारणं संभवतीत्यर्थः । ७. ८. १. २. आभाणकजगन्नाथः मौनेन मूढा जेतव्याः । सर्वदा मौनं गर्वसंसूचनम् । ९. अतिरेक अतिकरणान्मतिभ्रंशः । अतिनाट्ये मतिधूर्तता । अतिपठनं गतिहीनम् । ३. ४. ५. ६. अतिभुग्नं भग्नम् । ७. अतिमथनेन चन्दनादप्यग्निर्धगधगायते । ८. अतिमैत्री धर्मसंकटाय । ९. अतिशुद्धम् असंबद्धम्। १०. रपः प्राचुर्यमपि राक्षसेषु जीर्यति । ११. स्नेहातिरेके मोहातिरेकः । अतिपरिचयेन बन्धुरन्धुः संवृत्तः। अतिबुद्धिमताम् अधिकं मौढ्यम् । १०. अत्याशा [१२०] [८-१०] [१३१] १. करो दीर्घो, जिह्वा दीर्घतरा । २. गजे दत्ते भूतिर्न दत्तेति व्याघ्रासने तिष्ठति । ९.४. अन्धुः कूपः । ९. ६. भुग्नं वक्रम् । ९.१०. रपः- विषम् । शौनक- शाखायां (६.९१.२ ) वर्तमानस्यास्य शब्दस्य संवादितया पैप्पलादशाखायां (१.१११.१) विषमिति शब्दो दत्तः । “Nature of Vedic sākhās" (The Poona Orientalist. XVI. No.1 to 4) सुधीरकुमारगुप्तः ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73