Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 47
________________ [८२-८२] आभाणकजगन्नाथः ७. क्षिप्तमस्तिष्केषु उत्क्षिप्तवदाचरेत् । ८. क्षुब्धा देवा लुब्धा भक्ताः । ९. गर्दभेऽपि पुच्छं घोटकेऽपि पुच्छम् । १०. गेहेपण्डितस्य सभाध्यक्षत्वे गोठेपण्डितः प्रमाणम् । ११. घूकानां नर्तने भेकानां संगीत संगीतिः । १२. चर्पटसदृशः कर्पटः । १३. जामात्रा शष्पिञ्जरे भक्षिते श्वशुरेण शिंशपा कबलीकृता । १४. तिन्त्रिणीफलेन दाडिमस्य विवादः । १५. दुष्टाय देवाय धूर्तो देवलः । १६. नम्रा बुद्धिः कम्रा वाणी । १७. पुच्छेन लाङ्गूलं युयुजे । १८. पोषिते मूले पल्लवो हसति । १९. मर्कटध्याने मण्डूकः साक्षी । २०. मुसलेन ह्रदे लङ्किते दण्डेन गिरिर्लङ्कितः । २१. मृगाधिपस्य वनेषु शक्तिः, मूषिकस्य बिलेषु युक्तिः । २२. यावान् गरिमा तावाल्लघिमा । २३. वाचालानामाचार्यो वाचाटः । २४. शाखिनः शाखा न भारः पर्वतस्य प्रस्तरो न भारः । ८२.९. घोटके - अश्वे । ८२.११. संगीतिः- गोष्ठीत्यर्थे प्राचीनः प्रयोगः। बौद्धसंगीतिः स्मर्यताम् । ८२.१२. चर्पट:- जीर्णवस्त्रम् । कर्पट:- जीर्णवस्त्रम् । ८२.१३. शष्पिज्जरे- तृणभेदे । ८२. १५. देवल४- अर्चकः । ७२ १. २. आभाणकजगन्नाथः २५. शीधुं चूषय त्वम्, आसवमास्वादयाम्यहम् । [१०५१] ८३.वैसादृश्यम् आकारः सुवर्णोऽप्याचारो दुर्वर्णः । उद्धरामीति वदतः शिरस उत्पाटयामीति वदत्पुच्छम् । उद्वल्यं पूतिगन्धि फलपुष्पं मधुरगन्धि । कपर्दिकाधीश्वरस्य कनकाधीश्वर इति संज्ञा । ३. ४. कुवेणी किं कुसुमगन्धं सूते ? खल्वाटस्य शृङ्गाराय चूडामणिरुपायनीकृतः । गजस्य शुण्डया गरुडस्य को लाभः ? घोरभैरव्याः क्षीरदेवीत्यभिधानम् । जिनापणे झषमौल्यं जिज्ञासते । [८२-८३] ५. ६. ७. ८. ९. १०. जोषमुपविष्टानां देवानां पुरस्ताद् रोषभीषणा भक्ताः। ११. डिण्डिमभाषी पटहभाषिणं नीचैः शंसितुं प्रार्थितवान् । देव इति नामधेयं दौर्जन्यं भागधेयम् । नक्रमुखी वक्रमुखीम् अपहसति । नरं चिकीर्षुर्वानरं चकार । १२. १३. १४. १५. निर्जितरतेः सुन्दरीमणेः कनीनिकैव नास्ति । ८२.२५. शीधुं मद्यभेदम् । आसवं मद्यभेदम् । ८३.३. उद्वल्यम्- उद्भिज्जानां बल्यम्-Tonic for plants = Manure मया सृष्टोऽयं शब्दः । पूतिगन्धि- दुर्गन्धि । ८३.५. कुवेणी - मत्स्याधानार्थ पिटकः । ८३.९. झष४मीनः । ८३.१५. कनीनिका - अक्षिगोलकम् । ७३

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73