Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 53
________________ आभाणकजगन्नाथः ३. दिव्योऽप्यर्थो दीर्घवाक्येन दीर्णः । ४. "घा" शब्दस्यानुराधार्थी लगधेनैव धार्यते। वचसैव गौरवं वचसैव रौरवम् । विस्तर एव कदाचित् सुस्तरः । संक्षेपातिरेकः संक्षोभाय । ६. ७. ८. "सौर्" इत्यस्य 'सहोदर' इत्यर्थं सौभरिरेव वेद । ९. हर्षयति च धर्षयति च जनतां जनजिह्वा । १०. ह्रस्वं हृद्यं च वाक्यं निशितमतिमतां भूमतः प्रेमपात्रम् । [१२२९] ५. ६. ९२. संगीतम् गर्दभानां गानं मष्टुकानांत गर्दभाय गान्धर्वो वेदः । ३. गातुं विवृतवदनस्यास्ये मशकः पतितः । ४. गायनस्य संगीतं श्रुत्वा गर्दभः पलायितः । गायनानां न स्वरबोधा, स्तावकानां न श्रुतिबोधः। चक्रिकां विस्मृत्य नागस्वरवादनम् । ९१.४. लगधेन- तन्नाम्ना वेदाङ्गज्यौतिषकारेण । ९१.८.सौः सौभरेरेकार्थनाममालायां दत्तोऽयं विचित्रः शब्दो, विचित्रतरस्तदर्थश्च । वस्तुतस्तु सौभरिरेतादृनामनिर्माणे तदर्थपरिकल्पने च बहुधाऽश्राम्यदिति ज्ञायते । तदीया द्व्यक्षरनाममाला तु विचित्रतमा । एतत् सर्वं द्वयोरपि संपादकेन तत्रभवता एकनाथदत्तात्रेय-कुलकर्णिना इड्डीष्भाषायां स्फोरितम्। (Deccan college Pune 1955) ९२.६. चक्रिकाम् - वादनार्थमुपयुज्यमानां ह्रस्वां नलिकां - (Reed).... ८४ [९२-९२] छिन्ना जिह्वा गानारम्भे भग्नावङ्कौ तालारम्भे । जरद्गायनस्य वदने धन्यासीरागः संन्यासी बभूव । ताडिते सक्थिनि तालः संस्थितः । आभाणकजगन्नाथः ७. ८. S. १०. दासेरको मण्डूकवाशितेन दिव्यं समाधिं प्रविविक्षति । ११. पटहस्य कर्कशः शब्द एव परमोचितः । १२. भव्यं रागमारभ्य भषकवदाक्रोशति । ...नागस्वर:-सुषिरवाद्यविशेषः । कर्णाटकसंगीते नितरां प्रसिद्धः । 'नागस्वर' इत्येव शुद्धा संज्ञा | All India Radio संस्थया तु 'नादखर' इत्यशुद्धं नाम प्रमादात् स्वीकृतम्। “त्यागराजमहाध्वजारोह इति मुडुस्वामिदीक्षितीयायां गेयरचनायां 'नागस्वर' इत्येव पाठः । अस्मिन् विषये तत्रभवता डि.टि. ताताचार्यशिरोमणिना विरचितः “अभिधेयविशेषः " (Journal of Sri Venkateshwara Oriental Institute 4-2.July December 1943 Pp. 31-32 ) " इति लेखो द्रष्टव्यः । आह हि तत्र सः- “शावर एवं दशमान्ते- 'कालस्य लक्षणं हि पुरोडाशौ' इति सूत्रविवरणावसरे यथा ‘नागवेलायामागन्तव्यं शङ्खवेलायामागन्तव्यं, पटहवेलायामागन्तव्यमिति । यस्मिन् ग्रामे न नागाः, न शङ्खाः न पटहास्तस्मिन्नपि स एव कालः तत्र ह्यागमनं क्रियते' इति भाष्यते । तत्र नागशब्देन किमुच्यत इति विमर्शे यद्यपि स लोके गजवाचकतया सर्पवाचकतया च प्रसिद्धस्तथापि शङ्खपटहसमभिव्याहारवलात् तस्यात्र वाद्यविशेषवाचित्वमुचितमिति प्रतीतेरस्मत्प्रदेशे ‘नागस्वन’इति प्रथितं यद् वाद्यं तदेवाकारतः सर्पसादृश्याद् गौष्या वृत्त्या इह नागपदेनाभिधित्सितमिति वक्तव्यम् । एतेन यत् कस्माच्चित् कालात् प्राक् 'किं नागस्वन इति वाद्यस्य नामधेयम् उत नादस्वन इति' इति बहवो विवदमाना आसन् तत्रापि प्रथमपक्षस्य किञ्चिदुपष्टम्भकं प्रदर्शितं भवति । " ९२.९. सक्थिनि ऊरौ । संस्थितः मृतः । ९२.१०. वाशितेनतिरश्चां योग्येनाक्रोशेन । प्रविविक्षति - प्रवेष्टुम् इच्छति । प्र+विश्+सन् । ९२. १२. भषक श्वा। ८५ "

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73