Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 52
________________ [८९-९०] आभाणकजगन्नाथः ९. रचितं सर्वं रामायणं न, सृष्टं सर्वं सुभाषितं न । १०. रुचिरे कर्मणि रचिते जगति प्रचिता कीर्तिः सुचिरं जयति ॥ ११. विनयः स्वनति । १२. शातकुम्भेन कुम्भकरणं नाडिन्धमस्य कार्यं न कुम्भकारस्य । १३. शोचिष्केशे ज्वलति सहसा शष्कुली भर्जनीया । १४. सद्बुद्धीनां सरस्वत्येव सुभाषितम् । १५. सभासु विजृम्भस्व, स्वभाभिर्वर्धस्व । १६. सामान्या अपि स्वसिद्ध्या भूमान्या भवन्ति । १७. सुभाषितं कत्थते स्वयं तु विवहते ! १८. सुभाषितं श्रुत्वा कुभावनां धरति । १९. सुभाषितमेव सुजनस्यायुधम् । २०. सुव्याहारेण सुव्यवहारः । २१. सूकरः किं सुभाषितं जानाति ? २२. हितोपदेशो वा हतोपदेशो वा ? [१२०१] ९०. आभाणकः १. आभाणकहीनैः का भा संभाषणे ? २. आभाणकं बोधि साम्राज्यं शाधि । ८९.१०. प्रचिता संपुञ्जिता । ८९.१२. शातकुम्भेन सुवर्णेन । नाडिन्धमस्य-स्वर्णकारस्य । ८९.१३. शोचिष्केशे-अग्नौ । शष्कुली भक्ष्यविशेषः । अनुकूलायां परिस्थिती झटिति तस्योपयोगं कुर्यादिति भावः । ८९.१७ कत्यते-गर्वपूर्वकमात्मानं श्लाघते । आभाणकजगन्नाथः ३. आभाणकं विना का भारती ? आभाणकमादत्ते श्रीभाग्यान्याधत्ते । आभाणकशास्त्रं तव भारति ! शस्त्रम् । ४. आभाणके सति को भारः ? आभाणकैरारोग्यम् । आभाणकैरालोकः । ५. ६. ७. ८. आभाणको भूभानुः । ९. १०. आभाणको भूभूषणम् । ११. काले भणित आभाणके व्यालेशस्यापि शिरो दोलायते । १२. भजाभाणकं भुवो नाणकम् । १३. भणाभाणकं गुणाधायकम् । १४. लाभापेक्षुराभाणकं भाषेत । १५. शोभाहीनानाम् आभाणकेन मानः । १६. सुखमाभाणकभेदैः सर किं स्याद् बहुवेदैः ? १७. स्वैरं रचितानाभासान् आभाणकवचोभिराशु हर । १८. हास्यैराभाणको प्रस्तरं पुष्पीकरोति । [१२१९] ९१. वाग्व्यवहारः १. एका छुरिका द्वे शकले। २. जिह्वा प्रह्वा जागरूका जगत्याम् । ९०. १६. सुखं सर- गच्छ इत्यन्वयः । ९१.२. प्रह्वा नम्रा । [९०-९१] ८३

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73