________________
[८२-८२]
आभाणकजगन्नाथः
७. क्षिप्तमस्तिष्केषु उत्क्षिप्तवदाचरेत् ।
८.
क्षुब्धा देवा लुब्धा भक्ताः ।
९. गर्दभेऽपि पुच्छं घोटकेऽपि पुच्छम् ।
१०. गेहेपण्डितस्य सभाध्यक्षत्वे गोठेपण्डितः प्रमाणम् ।
११. घूकानां नर्तने भेकानां संगीत संगीतिः ।
१२. चर्पटसदृशः कर्पटः ।
१३. जामात्रा शष्पिञ्जरे भक्षिते श्वशुरेण शिंशपा कबलीकृता ।
१४. तिन्त्रिणीफलेन दाडिमस्य विवादः ।
१५. दुष्टाय देवाय धूर्तो देवलः ।
१६. नम्रा बुद्धिः कम्रा वाणी ।
१७. पुच्छेन लाङ्गूलं युयुजे ।
१८. पोषिते मूले पल्लवो हसति ।
१९. मर्कटध्याने मण्डूकः साक्षी ।
२०. मुसलेन ह्रदे लङ्किते दण्डेन गिरिर्लङ्कितः ।
२१. मृगाधिपस्य वनेषु शक्तिः, मूषिकस्य बिलेषु युक्तिः ।
२२. यावान् गरिमा तावाल्लघिमा ।
२३. वाचालानामाचार्यो वाचाटः ।
२४. शाखिनः शाखा न भारः पर्वतस्य प्रस्तरो न भारः ।
८२.९. घोटके - अश्वे । ८२.११. संगीतिः- गोष्ठीत्यर्थे प्राचीनः प्रयोगः। बौद्धसंगीतिः स्मर्यताम् । ८२.१२. चर्पट:- जीर्णवस्त्रम् । कर्पट:- जीर्णवस्त्रम् । ८२.१३. शष्पिज्जरे- तृणभेदे । ८२. १५. देवल४- अर्चकः ।
७२
१.
२.
आभाणकजगन्नाथः
२५. शीधुं चूषय त्वम्, आसवमास्वादयाम्यहम् । [१०५१]
८३.वैसादृश्यम्
आकारः सुवर्णोऽप्याचारो दुर्वर्णः ।
उद्धरामीति वदतः शिरस उत्पाटयामीति वदत्पुच्छम् ।
उद्वल्यं पूतिगन्धि फलपुष्पं मधुरगन्धि । कपर्दिकाधीश्वरस्य कनकाधीश्वर इति संज्ञा ।
३.
४.
कुवेणी किं कुसुमगन्धं सूते ?
खल्वाटस्य शृङ्गाराय चूडामणिरुपायनीकृतः । गजस्य शुण्डया गरुडस्य को लाभः ?
घोरभैरव्याः क्षीरदेवीत्यभिधानम् ।
जिनापणे झषमौल्यं जिज्ञासते ।
[८२-८३]
५.
६.
७.
८.
९.
१०. जोषमुपविष्टानां देवानां पुरस्ताद् रोषभीषणा भक्ताः।
११. डिण्डिमभाषी पटहभाषिणं नीचैः शंसितुं
प्रार्थितवान् ।
देव इति नामधेयं दौर्जन्यं भागधेयम् ।
नक्रमुखी वक्रमुखीम् अपहसति ।
नरं चिकीर्षुर्वानरं चकार ।
१२.
१३.
१४.
१५. निर्जितरतेः सुन्दरीमणेः कनीनिकैव नास्ति । ८२.२५. शीधुं मद्यभेदम् । आसवं मद्यभेदम् । ८३.३. उद्वल्यम्- उद्भिज्जानां बल्यम्-Tonic for plants = Manure मया सृष्टोऽयं शब्दः । पूतिगन्धि- दुर्गन्धि । ८३.५. कुवेणी - मत्स्याधानार्थ पिटकः । ८३.९. झष४मीनः । ८३.१५. कनीनिका - अक्षिगोलकम् ।
७३