________________
[८३-८३]
आभाणकजगन्नाथः
१६. परमेश्वराय पर्युषितं नैवेद्यम् ।
१७. पातञ्जलं योगमभ्यस्य परमोत्रं शापं ददाति ।
१८. पाताले कीदृशी पीयूषवार्ता ?
१९. पिशाचस्य पटवासकः !
२०. पुण्डरीकात् किं पूतिगन्धः स्रवति ?
२१. प्रदीपेन तमः प्रसूतम् !
२२. प्रसूतस्तु मद्यपायी, भर्त्सितास्तु वायुभक्षाः ।
२३. बुद्धिं वदतां शुद्धिर्नास्ति ।
२४. बोधं सिसृक्षोः क्रोधः किमर्थः ?
२५. भीकराकारः सूकरं दृष्ट्वा थरथरायते ।
२६. भीमो वामनं विलोक्य ग्रामात् पलायते ।
२७. मर्कटं पालयित्वा मनोजयाय दीक्षां धत्ते ! २८. मार्दङ्गिकस्य शङ्खेन किं कार्यम् ?
२९. मीमांसकस्य मातुलो मीनस्य मांसं मेध्यं मन्यते ।
३०. मुदा अतिथौ आगते मृदा अलिम्पन् ।
३१. मुमुक्षुर्मण्डूकैः साकं मौनविषयं महावादमारभते ।
३२. मृगस्य शृङ्गे दृष्टे मृगाधिपस्य दंष्ट्रा बिभेति ! ३३. यतिपतेः कतिकूपिकामात्रं मद्यम् ? ३४. रात्रौ यक्षादनं, दिवा भिक्षादनम् । ८३.१६.पर्युषितम्-गतरसं, ह्यो वा परह्यो वा सिद्ध आहारः । ८३.१९. पटवासकर सुगन्धद्रव्यं, सौन्दर्यवर्धनार्थं वदने लेपनार्थो द्रव्यविशेषो वा । ८३.२०. पूतिगन्धः- दुर्गन्धः । ८३.२९. मेध्यम् - पवित्रम् । ८३.३४. अदनम्भक्षणम् ।
७४
आभाणकजगन्नायः
३५. रामग्रामे रावणः सार्वभौमः ।
३६. वटिकाभाण्डे व्याघ्रपोतस्य किं विधेयम् ?
३७. वटो वट एव, घटो घट एव ।
३८. वत्सो वृषभो न, सेनापतिः सम्राण्न । ३९. वामनस्य भीमोदरम् ।
४०. विक्षुभायां विक्षोभः !
४१. वेदान्तमधीत्य वैरं वर्धयति ।
४२. शशकस्य किं शृगालेन मैत्री ?
४३. शिलीन्ध्रं प्रणन्तुं लाङ्गली प्रयतते ।
४४. शुण्डापाने तक्रमन्विष्यति ।
४५. शुभाशीर्वाद प्रार्थिते “ श्वभ्रं गच्छ ” इत्याक्रुशत् ।
४६. शृङ्गाराय शिखायां शादः ।
४७. संन्यस्तुमिच्छोः प्रतिमासं प्रत्यग्रः प्रणयः ।
४८. सदने सुतसंततिः कुसुले तुपप्रततिः ।
४९. सर्पभ्रान्त्या किंचुलुकम् अमारयन्।
५०. सर्वाङ्गसुन्दरः, किन्तु विग्रः ।
५१. सामगानं चिकीर्षोः समागता हिक्का ।
[८३-८३]
८३.४० विक्षुभावां-छायायाम् । ८३.४४ गुण्डापाने मद्यापणे । ८३.४५.श्वर्भ-नरकम् । ८३.४६.शादः-कर्दमः। ८३.४७. प्रत्यग्रः- नूतनः । ८३.४८. सदने गृहे सुतानामपि संततिरस्ति । न केवलं सुता अपि तु तत्सन्ततिरप्यस्ति । परन्तु किं प्रयोजनम् ? कुसूलं धान्यागारं पालयितुं कोऽपि न सिद्धः । फलत्वेन कीटैर्धान्यानि भक्षितानि । प्रततिः समूहस्तु केवलं तुषाणामेवावशिष्टा सुतास्तत्सुताश्चालसा इत्यभिप्रायः । ८३.४९. किंचुलुकम् गण्डूपदीम्। मृदि वर्तमानं जन्तुविशेषम् Earth worm.८३.५०. विग्रः नष्टनासिकः ।
७५