________________
आभाणकजगन्नाथ:
आभाणकजगन्नाथ:
[८५-८५]
५२. सुजनता जडता न समं द्वयम्। ५३. सुष्ठु बुद्धा दुष्ठु करोति। ५४. स्वप्ने दशकण्ठं कबलीकुर्वन्ति, जागरितास्तु द्विरेफाय
साष्टाङ्गं प्रणिपतन्ति। ५५. स्वप्ने नन्दनं, जागरे क्रन्दनम्। [११०६]
८४.दर्पण
१. अतदपि तदिव व्यदधान्मुकुरः। २. अपघन! प्रतिबिम्बसि दर्पणेष्वयि मनो ! मम न
प्रतिबिम्बसि। ३. आदर्शाद् बहिर्यद् वर्तते तदेवादान्तः
प्रतिबिम्ब्यते। ४. दर्पणे दक्षिणो वस्तुतस्तु वामः ।
द्विपः किं दर्शे प्रतिबिम्ब्यत आदर्श ? ६. मत्तावलोऽपि मुकुरे मुष्टिमेयः । ७. मन्मथम्मन्यमानो मुकुरं मधु मोटितवान् । ८. सोऽर्थो वास्तविको यस्यैवादशैं प्रतिबिम्बनम् । [१११४]
२. अरित्रावलम्बनेन पारावारे परित्राणम्। ३. काण्डमिक्षोर्वीक्षस्व, मा कणिशम्।
कोपहीनता पापशून्यता। गुडगणो मरिचकणेन गलहस्तितः ।
गोप्यं गोपनीयमेव। ७. जिह्मैरपि युध्यस्व, ब्रह्मण्यपि वर्तस्व ।
मस्तकज्ञानी पुस्तकज्ञानिनं कनिष्ठिकया धूनयति। ९. लोके शुद्धिः परमा सिद्धिः। १०. वैविध्यं चिन्तनानां वैराग्यं वास्तविकम् । ११. शादो हस्ते, स्वादो रसनायाम्। १२. स्वान्ते शान्ततमे दरे च दलिते दण्डोऽपि
निःश्रेणिका। १३. हलगताः प्राणाः कुसुले द्रोणा। [११२७] ८५.२.अरित्रम्-उडुपेषु नोदनार्थमुपयुज्यमानः दण्डाकार सामग्रीविशेषः । पारावारे-समुद्रे। ८५.३. कणिशं-सस्यमञ्जरी, सस्योर्ध्वभाग: । इक्षोकणिशं सुन्दरमपि, स्वादहीनम् फलप्रसूतिरहितं च। तत्राबधान मा बधान,परन्तु,इक्षो? काण्डमास्वादयेत्यर्थः । बाह्यः किं रूपैः, अन्तरङ्ग पश्येत्याकूतम् । ८५.५.गलहस्तित४-अर्धचन्द्रप्रयोगं लम्भित । महानपि गुणोऽल्पेन दोषेण नश्यतीति भावः । ८५.७.जिह्मठ-कुटिलमतिभिः । ८५.८.धूनयति-कम्पनपूर्वकं निवारयति । ८५.१०. वैराग्य-लोके विरागो न वैराग्यम् । केवलमेकस्मिन् दर्शनऽतिसज्जतया जायमाना ये मानसिका दोषास्ते विविधेषु दर्शनविषयेषु कुतूहले सति सुपरिहरा? सन्तो वैराग्यं साधयन्तीति ममाभिप्राय: । कथं वाऽत्र मेधाविनो मन्यन्ते। ८५.१२.दरे-भये। ८५.१३.यदि कृषिको हले प्राणान् धत्ते, लक्षणया केदारे थाम्यति, कुसूले-धान्यसंचयगृहे द्रोणा-परिमाणं परिमातुमर्हा सामग्री कार्यकारिणी भवत्येव । सुभिक्षो भवति स ।
८५.व्यवहार
१. अदृष्टायां कशायाम् आयु: शतानां शतम् ।
८४.२.अपघन!-हे शरीर! ८४.५.द्विप?-गजः । दर्श-अमावास्यायाम्। ८४.६.मत्तावल-गज४।८४.७.मक्षु-झटिति।