________________
[८६-८६]
आभाणकजगन्नाथ
आभाणकजगन्नाथ
[८६-८७]
८६.विद्या १. अइउणमविज्ञाय पाणिनिमाकारयति नियुद्धाय । २. अपकारार्थम् उपनिषदाम् उपयोगः । ३. आचार्योपदेशो वा नीचा वाचो वा ? ४. आर्षान् ग्रन्थान् पठित्वा कार्षापणाय केशाकेशि
करोति। कठिनीविद्या केषाञ्चित् कठिना विद्या। ६. गुरो8 पापेन घोरेण गृहीत? शिष्य उच्यते।
चोरः शिष्यश्छुरिकावान् आचार्य । निरक्षरभट्टाचार्यस्य नानाशास्त्रीति संज्ञा ।
निरक्षरभट्टाचार्याय नैषधं काव्यम् । १०. नैके गुरवो नाना भ्रान्तयः । ११. पठने लब्धं ज्ञानं रटने नष्टम् । १२. पठित्वा पठित्वा शठोऽभवत् ।
पिशाचानां किं पण्डितभाषया ? १४. पीठे स्थिते पाठेन किम् ? १५. बोधोदयेऽपि शोधो विधेयः । १६. बोधे जाते बुद्धिर्वक्रा। १७. बोधे रुदिते बाधो हसति। ८६.१. नियुद्धाय-मल्लयुद्धाय । ८६.५.कठिनी-लेखनसामग्री। यद्यपि कठिनत्वं नाम स्पर्शपरुषत्वं न क्लेशप्रदत्वम् । तथापि ग्रहणसुलभत्वं यत्र नास्ति तत्र ग्रहणे कोमलत्वप्रतियोगि परुषत्वमनुभूयत इति कारणात् कठिनशब्दस्य क्लेशरूपोऽर्थ आक्षिप्यते।
१८. महामहोपाध्यायमहिमान्वितभट्टाचार्यो वर्णमालामेव
न जानाति। १९. मूर्खाचार्यस्य मर्कट: शिष्यः। २०. रोदनशीलस्य पुरस्ताद् वेदघोषः । २१. वरवाङ्मयनिर्माणे परकायप्रवेशः । २२. विद्यां वर्तने पश्य। २३. विद्यावतां ग्रन्था एव पन्थाः। २४. वी-बुद्धीनां वाचाटतैव वेदशास्त्राणि। २५. शषसान् अबुद्ध्वा शास्त्राण्युपदिशति। २६. शास्त्राण्यधीत्य शीर्षं कुट्टयति। २७. संप्रदाय: कम्प्र एव। २८. सरस्वत्या प्रणतानां स्वान्तं शान्तम् । २९. स्थूलायां त्वचायां सरस्वती न लगति। [११५६]
८७.ग्रन्थो मूलं व्याख्या च। १. ग्रन्थं रिरचयिषुर्ग्रन्थिं ससर्ज। २. ग्रन्थे मुद्रिते गर्यो गलितः । ३. टीका विकृता ट्रलयति मूलम्। ४. पिचुविषये पर्वतदघ्ना पृच्छा। ५. पुस्तकं पठित्वा दुस्तरं साधयति । ८६.२४.वीध्रबुद्धीनाम्-विमलमतीनाम् । ८६.२७.कम्प्र-कम्पनशील। कम्प+रन् । ८७.३.ट्लयति-कम्पयते। ट्रल कम्पने। ८७.४.पिचुः-लघु कार्यासपिण्डी। पर्वतदना-पर्वतपरिमाणा।