Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 39
________________ [६२-६४] १९. लवणस्य लोपे वारिधिना वैरम् । २०. वस्त्रसौन्दर्यं किं विजानाति ग्राम्याश्वः ? २१. वायुं विदारयितुं विविधान् व्यायामान् विदधाति । २२. शृगालेन शप्तः शैलः किं शीर्यते ? [७९३] ६३.धार्यम् १. २. ३. ४. ५. ६. ७. ८. १. २. आभाणकजगन्नाथः ३. आक्रोशेन राक्षसेश्वरं प्रणामयते । गर्जनमेव दुर्बलानाम् अर्जनम् । गलेन गर्जन्तं बिलेशयं दृष्ट्वा स्तम्बेरमः स्विद्यति। दण्डधारिणी पिपीलिका चण्डव्याघ्रं कम्पयते । देवताऽस्मि गलिता नभसोऽहं पावना मम समेऽपि विलासाः । नखे दर्शिते सुखेन सिद्धिः । मडुकाद् भीता लड्डुकं यच्छन्ति । हुंकारेण लङ्केश्वरं किंकरं कुरुते । ६४. धूर्ता एकमलीकं सर्वं गप्पम्। कर्मपापिष्ठा धर्मदेवेन शपन्ते । गप्पेश्वराणां सन्निधौ मिथ्यावाचां दासत्वम् । ६२.२०.दासेरकः-गर्दभः । ६३.३. बिलेशयम्-मूषिकम् । स्तम्बेरम:-गजः । ६३.५.समेऽपि-सर्वेऽपि । ६३.७. मडकात्- अवनद्धवाद्यविशेषात् । ६४.१. अलीकम् असत्यम् । [८०१] ५६ आभाणकजगन्नाथः चाणक्यचेतसो माणिक्यं वचनम् । दण्डवत् प्रणम्य दशार्धपूजां करोति । ४. ५. ६. देवो वाचा पूर्वदेवश्च वृत्त्या । ७. देहं सुहृदो दयया दारयति । ८. धगधगायमाने परधामनि धान्यं निजं पिपक्षति । पादयोः प्रणिपत्य पादाङ्गुलीश्छिनत्ति । ९. १०. प्रणिपातं नाटयन् पार्ष्णिं गृहीत्वा पातयामास । ११. प्रतारकस्य वचने पलाण्डुरेवाम्रफलम् । १२. ब्रह्मज्ञानं न्यूनं जिह्मं कर्म तु नोनम् । १३. भण्डेन भगवद्गीतोपदेशः । [६४-६४] १४. भाषा श्लक्ष्णा भाव: कुसृतिः । १५. मयूरवन्मनोहरो व्यंसकवद् विश्वासध्वंसकः । १६. मिथ्यामतिः सत्येन शपन् पटहं वादयति । १७. लोकोक्तिर्वा छेकोक्तिर्वा ? १८. लोकोद्धारं नटन् काकोदरो भेकान् भक्षयामास । १९. वक्रबुद्धिः शक्रं जयति ! २०. वरीयान् भण्डेषु दण्डोपायः । २१. वाक्चतुरो वा वागुरिको वा ? ६४.५.दशार्धपूजाम्-कपोले चपेटिकाम् । दशानाम् (लक्षणया दशाङ्गुलीनाम् ) अर्धपञ्च (लक्षणयैकः करः) । भरटकप्रहसनाख्ये जैनग्रन्थे शब्दोऽयमस्तीति श्रूयते । ६४.६. पूर्वदेवः- दैत्यः । पूर्वदेवाः सुरद्विष इत्यमरः । ६४.८. पिपक्षति-पक्तुमिच्छति । ६४.११. प्रतारकस्य - वञ्चकस्य । ६४.१२. नोनम् न ऊनम्। ६४.१४. श्लक्ष्णा उच्चावचत्वहीना । कुसृतिः- वञ्चना । ६४.१५.व्यंसकः- धूर्तः । ६४.१८. काकोदरः- सर्पः । ६४.२१. वागुरिक:- वागुरवा ( = मृगादिग्रहणार्थेन जालेन ) मृगान् ग्रहीता व्याधः । ५७

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73