Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 44
________________ [७६-७९] २. १. २. ३. ७७. मद्यपानम् १. मदिरामत्ता मुदिरान् निन्दन्ति । २. मद्यपानां शीधुरेव महादेशिकः साधुः । ३. मद्यमेव महास्वर्गः । ४. मन्दीभूतं मस्तिष्कं मैरेये मग्नानाम् । ७८. मुधा घोषणा १. २. आभाणकजगन्नाथः ३. ४. ५. धीरस्वर्गः कण्टकवर्गः । अमितालापः शून्यस्तापः । मर्दलैरारम्भो म्लाना समाप्तिः । स्फूर्जथोर्गर्जनं, क्षुद्रलोष्टार्जनम् । ७९. मूर्खाः आक्रोशः सोरस्ताडम् आदत्ते भूरिवित्ते । आक्रोशो युक्तिहीनानाम् आयुधम्। आम्रस्य पुरस्तादाम्रेडयन्ति स्वादुलक्षणम् । [९४३ ] [९४७] ६६ [९५०] आशया राजानं दृष्ट्वा माषं पारितोषिकत्वेनानिनाय । उत्संगे पतितं निधिं पाडयित्वा मृत्संगाय हस्तं प्रसारयति । ७७.१. मुदिरान्- मेघान् । ७७.२. शीधुः मद्यविशेषः । ७७.४. मैरेये मद्यविशेषे । ७९.१. आदत्ते स्वीकृते सति । सत्सप्तमी । ७९.३. आम्रेडयन्ति पुनः पुनरुच्चारयन्ति । ७९.५. पाडयित्वा पादेन प्रहृत्य । ६. ७. ८. ९. १०. ११. आभाणकजगन्नाथः एकस्य पटच्चरस्य धारणाय चतस्रः मिथछुरिकां दर्शयन्ते । [७९-७९] कञ्चनापि वञ्चयितुं पञ्चमान्यथाभावानां न शक्यते । कनकं विक्रीय कच्चरं क्रीणाति । कर्कटो विश्वसिति कर्करेटौ । काकिण्यां कौशल्यं कार्षापणे दौर्बल्यम् । कार्षापणं विक्रीय करीषं क्रीणाति । १२. काशीं गत्वा क्लेशान् आनिनाय । १३. किङ्कार्यमूढो लङ्केश्वरकैङ्कर्येण सङ्कटमनुभवति। १४. कुबेरस्य पुरस्तात् कुस्तुम्भरीं प्रार्थयते । १५. कोलाहलं कर्तुं काहल्या निमन्त्रणा । १६. गजस्योपर्युपविश्य गर्दभेनालिङ्गयते । १७. गाढेन रोदनेन मूढो बृहस्पत्याचार्यायते वा ? १८. गुज्जैव मर्कटस्य माणिक्यम् । १९. चण्डव्याघ्रे पण्डितोपदेशः । २०. जायस्वेत्युक्ते म्रियस्वेति शृणुते । २१. तेजस्तावन्नास्तीति सोरस्ताडं प्ररोदनम् । २२. देवानांप्रियाय दुकूले दत्ते दिवाभीतमाच्छादयति । ७९.६. पटच्चरस्य जीर्णवस्वस्य । ७९.७. पञ्चमान्यवाभावानाम् रासभानाम् । अस्य शब्दस्येदमर्थे प्राप्तये कोषः कोऽपि नान्विष्यताम्। न लभ्यते तत्रायम् । अन्यथाभावाः पञ्चोच्यन्ते विश्वनाथेन भाषापरिच्छेदेऽनुमानप्रकरणे । पञ्चमस्तु रासभ: । ७९.८. कञ्चरं - मालिन्यम् । ७९.९. कर्करेटौ महति बकविशेषे । ७९.१५. काहल्या-अवनद्धवाद्यविशेषेण । ७९.२२. दिवाभीतं घूकम् । ६७

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73