________________
[६२-६४]
१९. लवणस्य लोपे वारिधिना वैरम् ।
२०. वस्त्रसौन्दर्यं किं विजानाति ग्राम्याश्वः ?
२१. वायुं विदारयितुं विविधान् व्यायामान् विदधाति ।
२२. शृगालेन शप्तः शैलः किं शीर्यते ?
[७९३]
६३.धार्यम्
१.
२.
३.
४.
५.
६.
७.
८.
१.
२.
आभाणकजगन्नाथः
३.
आक्रोशेन राक्षसेश्वरं प्रणामयते ।
गर्जनमेव दुर्बलानाम् अर्जनम् ।
गलेन गर्जन्तं बिलेशयं दृष्ट्वा स्तम्बेरमः स्विद्यति।
दण्डधारिणी पिपीलिका चण्डव्याघ्रं कम्पयते ।
देवताऽस्मि गलिता नभसोऽहं
पावना मम समेऽपि विलासाः ।
नखे दर्शिते सुखेन सिद्धिः ।
मडुकाद् भीता लड्डुकं यच्छन्ति ।
हुंकारेण लङ्केश्वरं किंकरं कुरुते ।
६४. धूर्ता
एकमलीकं सर्वं गप्पम्।
कर्मपापिष्ठा धर्मदेवेन शपन्ते ।
गप्पेश्वराणां सन्निधौ मिथ्यावाचां दासत्वम् । ६२.२०.दासेरकः-गर्दभः । ६३.३. बिलेशयम्-मूषिकम् । स्तम्बेरम:-गजः । ६३.५.समेऽपि-सर्वेऽपि । ६३.७. मडकात्- अवनद्धवाद्यविशेषात् । ६४.१. अलीकम् असत्यम् ।
[८०१]
५६
आभाणकजगन्नाथः
चाणक्यचेतसो माणिक्यं वचनम् ।
दण्डवत् प्रणम्य दशार्धपूजां करोति ।
४.
५.
६.
देवो वाचा पूर्वदेवश्च वृत्त्या ।
७. देहं सुहृदो दयया दारयति ।
८.
धगधगायमाने परधामनि धान्यं निजं पिपक्षति । पादयोः प्रणिपत्य पादाङ्गुलीश्छिनत्ति ।
९.
१०. प्रणिपातं नाटयन् पार्ष्णिं गृहीत्वा पातयामास ।
११.
प्रतारकस्य वचने पलाण्डुरेवाम्रफलम् ।
१२. ब्रह्मज्ञानं न्यूनं जिह्मं कर्म तु नोनम् ।
१३.
भण्डेन भगवद्गीतोपदेशः ।
[६४-६४]
१४. भाषा श्लक्ष्णा भाव: कुसृतिः ।
१५. मयूरवन्मनोहरो व्यंसकवद् विश्वासध्वंसकः ।
१६. मिथ्यामतिः सत्येन शपन् पटहं वादयति ।
१७. लोकोक्तिर्वा छेकोक्तिर्वा ?
१८. लोकोद्धारं नटन् काकोदरो भेकान् भक्षयामास ।
१९. वक्रबुद्धिः शक्रं जयति !
२०. वरीयान् भण्डेषु दण्डोपायः ।
२१. वाक्चतुरो वा वागुरिको वा ?
६४.५.दशार्धपूजाम्-कपोले चपेटिकाम् । दशानाम् (लक्षणया दशाङ्गुलीनाम् ) अर्धपञ्च (लक्षणयैकः करः) । भरटकप्रहसनाख्ये जैनग्रन्थे शब्दोऽयमस्तीति श्रूयते । ६४.६. पूर्वदेवः- दैत्यः । पूर्वदेवाः सुरद्विष इत्यमरः । ६४.८. पिपक्षति-पक्तुमिच्छति । ६४.११. प्रतारकस्य - वञ्चकस्य । ६४.१२. नोनम् न ऊनम्। ६४.१४. श्लक्ष्णा उच्चावचत्वहीना । कुसृतिः- वञ्चना । ६४.१५.व्यंसकः- धूर्तः । ६४.१८. काकोदरः- सर्पः । ६४.२१. वागुरिक:- वागुरवा ( = मृगादिग्रहणार्थेन जालेन ) मृगान् ग्रहीता व्याधः ।
५७