________________
[६१-६२]
आभाणकजगन्नाथः
२३. यवागूपायी सुवर्णमौल्यं जिज्ञासते ।
२४. वामनं दृष्ट्वा खर्वो गर्वं बिभर्ति । २५. शृङ्गवता शृगालेन उपद्रवोऽधिकः । २६. सर्वतोदिशं हितं गर्वहीनानाम् । २७. सर्वे पाचकाः स्वपाकं नलपाकं ब्रुवते । २८. सर्वेषु सर्वाधिपेषु गर्वस्य साम्राज्यम् । २९. हलं किंचुलुको हन्तुं यतते !
६२. सामर्थ्यहीनता
१. अङ्गुलीदघ्नस्य कलविङ्कस्य भङ्गलीला गृधैः !
२.
३.
अजातशत्रुः सुजातजाड्यः । अदृष्टहिमालयानां भस्मराशिरेव पर्वतराजः । ४. अरित्रमजानानां नौकायां किं कृत्यम् ?
[७७१]
५. आसवपानमेव भीरोर्वीरपाणम् ।
६.
७.
८.
६१.२९. किंचुलुक:- गण्डूपदी Earthworm.६२.१. अङ्गुलीदघ्नस्य अङ्गुलीपरिणामस्य । कलविङ्कस्य - चटकस्य । ६२.२. अजातशत्रुः- युधिष्ठिरः । ६२.४. अरित्रम् - उड्डुपस्य जले नोदनायोपयुज्यमानो दण्डाकारकः सामग्रीविशेषः । ६२.५. आसव:- मद्यम् । वीरपाणम् युद्धे क्रियमाणं पानम् । ६२.७. कनिक्रन्दन्ति - अतिशयेन उच्चैर्वा गर्जन्ति । वैदिकोऽयं शब्दः । कर्मणि अश्रूषा :- बलहीनाः । शूषशब्दो वैदिको बलार्थकः । ६२.८. कर्णेटिरिटिरिणा किमपि जल्पित्वा जीवता सामर्थ्यहीन । ( 'कर्णे किमपि जल्पित्वा जीवति, नास्य विक्रम इति भाव:'
कच्चरपरीवाह एव पङ्गो रासभस्य भागीरथी । कनिक्रन्दन्ति कर्माशूषाः ।
कर्णेटिरिटिरिणा किमपि न साध्यते ।
५४
आभाणकजगन्नाथः
९. कर्दमे लुण्ठनं किटीनामभ्यञ्जनम् । १०. कापेये शक्तिशून्यः कपिर्वृक्षमाक्षिपति । ११. गन्धमूषिका किं गन्धमादनं गिरति ? १२. झज्झां किं जरद्गवः प्रतिरुणद्धि ? १३. दर्वीमधिक्षिपन्ति दुष्पाचकाः । भग्नदन्तानां शरावे पृथुकतण्डुलः । १५. भानुं किं वर्णयन्त्यभिनिम्रुक्ताः ? १६. मशको मृगाधिपं भाययति ।
१४.
१७. महिषस्य किं मार्जारः प्रतिमल्लः ?
[६२-६२]
१८. मूषिकमल्लं मातङ्गमाणवको मर्दयति । गणरत्नमहोदधिः (पद्यसंख्या १०४) ६२.९. किटीनां वराहाणाम्। ६२.११. गन्धमादनं- पर्वतविशेषम् । गिरति गिलति । ६२. १२. झझाम्-वातं स वृष्टिकम् | जरद्भव:- वृद्धो वृषभः । ६२. १५. भानुं - रूढ्योदयमानं सूर्यम् । अभिनिम्रुक्ता:- अत्यलसा ये सूर्यास्तात् प्रागेव स्वपन्ति । 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च । अंशुमानभिनिमुक्ताभ्युदितौ तौ यथाक्रमम्।' इत्यमरः । अत्र 'अभिनिर्मुक्त' इत्यपपाठ: । अन्धपरम्परया व्याख्यासु कोशादिषु च 'अभिनिर्मुक्त' इत्येव पाठोऽन्वसारि । वस्तुतस्तु 'चु गतौ' इति धातोर्निपूर्वकादस्तमयार्थकात् 'निमुक्तः', 'निस्रुक्', "निम्रोचन् इत्यादयः प्रयोगाः सिद्ध्यन्ति । 'निम्रोचन्नधरान् कृधि', 'उपाश्च तस्मै निम्रुक्च', 'श्रद्धा सूर्यस्य निम्नुचि' 'या इष्टा उषसो निम्रुचश्च' इत्यादयो वैदिकाः प्रयोगाः । तैत्तिरीयब्राह्मणे चायं प्रयोगः- “देवा वै हविर्भृत्वाब्रुवन् । कस्मिन्निदं प्रक्ष्यामह इति। आप्या अमृजत सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिम्रुक्ते । सूर्याभिनिमुक्तः कुनखिनि ।” शिष्टप्रयोगसंग्रहे तिरुमङ्गलं नडादूर् नरसिंहाचार्यरचिते (सनातनधर्मकार्यालयः, ट्रिप्लिकेन्, तमिळुनाडु १९३४) प्रपञ्चोऽस्य द्रष्टव्यः ।
५५