________________
[६०-६१]
आभाणकजगन्नाथ
आभाणकजगन्नाथ
ग्राहेण ग्रस्यमानानां ग्रहाः किम् उपकुर्यु: ? ३. नवापि ग्रहा नोद्धरन्ति निद्रालून् जनान् ।
निकृष्टा निटिलं निन्दन्ति।
लोलबुद्धिर्ललाटं घट्टयति। ६. शीर्षं स्वयं भङ्ग वा शनीश्वरं भर्त्सयति। ७. शाते जाते भुजाय ताली, शोके स्फीते ग्रहाय गाली।
सूर्य संसर्पति व्योम्नि संसर्प समधीत्य किम् ? ९. स्वके ललाटे स्वयमेव लिख्यते।
६१.गर्व १. असत्यपि वर्षणे, स्फूर्जथुः कर्णभित् । २. अहंयुर्गोमायुर्गिरिमाज्ञापयति।
अहमपि वीर सदने शूरः।
अहल्लिकस्य नासाम् अहश्चिच्छित्सति ! ५. गरुडाय डयनं चटक शिक्षते।
गर्ववतां शिरसि दर्वीताडनम् । ७. गहरे गौधेर एव गरुडः ।
८. गौौं शृङ्गो, गर्वस्य नव शृङ्गाः । ९. दम्भो वा कुयश स्तम्भो वा ? १०. दर्पसर्पो दारिद्रयेण दीनो बभूव । ११. दिवान्धो देवान्धसं दित्सति। १२. नासिकया भूमिंस्पृक्षु महामल्लेषु चमरपुच्छ8
सोरताडं गर्जति। १३. पततोऽप्युदरम् उत्तानम्। १४. पर्पटी कर्तुमजानन् पौरोगवपदवीं काङ्कते। १५. पातुं जलं नास्ति, “पायसं पित्तलपात्रे किम् "
इति जगर्ज। १६. भिक्षाजीवस्य स्वप्ने भृत्यस्तु कुबेर ! १७. भिक्षाधीश्वरो यक्षाधीश्वरं पादमर्दनायाज्ञापयति ! १८. मठे नष्टेऽपि हठः शिष्टः। १९. मया गप्पे विकीर्णेऽपि ममान्वयः सत्यहरिश्चन्द्रस्य। २०. मां चक्रवर्तिनं कृत्वा त्वं राजा वा भव, सामन्तो वा
भव। २१. मुरजस्य स्थाने शब्ददम्भः मुनेरस्थाने मौनदम्भः । २२. मुष्टौ मे विष्टपत्रयी। ६१.११. दिवान्ध-घूकः । देवान्धसम्-देवयोग्यमन्नम्। ६१.१२.चमरपुच्छाSquirrel६१.१३.उत्तानम्-ऊर्ध्वमुखम् । ६१.१४.पौरोगव-पाचकानाम् अध्यक्षः। ६१.१६.भिक्षाजीवस्य-भिक्षुकस्य । ६१.१९.गप्पे-अत्यन्तासत्ये वचसि । 'न संभवतिया वार्ता लोकेसा गप्पमुच्यते।'इति तल्लक्षणं मया कुत्रापि पठितम्। ६१.२२.विष्टपम्-जगत्।
६०.२.ग्राहेण-मकरेण । ६०.४.निटिलं-ललाटम्। ६०.७.शाते-सुखे(शर्मशातसुखानि च इत्यमरः स्मर्यताम्।)। स्फीते-वृद्धिं गते -स्फायी वृद्धी। ६०.८.संसर्पम्-अधिक मासम् । प्राचीनोऽयं शब्दस्तैत्तिरीयब्राह्मणेऽस्ति। ६१.२.अहंयु:-अहंकारी। गोमायु:-शृगालः । ६१.४.अहल्लिकस्य-रात्री दृश्यमानस्य पिशाचविशेषस्य । (बृहदारण्यकोपनिषदि ३.९.२५) चिच्छित्सति-छेत्तुमिच्छति। ६१.७.गह्वरे-गुहायाम्। गौधेरठ-गोधिका।