Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 17
________________ आभाणकजगन्नाथ आभाणकजगन्नाथः ॐFus अजा घासान् विजानन्ति। ३. अ-नामितः क्षुपः किम् अगो भवन् नाम्यते ? अपश्यति नयने किं बुद्धिर्न पश्यति ? ५. अवीक्षमाणेऽप्यम्बके सुवीक्षते स्वान्तम् । असत्सु बुन्देषु बाणासनेन किम् ? अस्थिताद् अमृतात् सुस्थितं कं वरम् । आत्मश्लाघा कुहचिदमोघा। ९. आसादितेन हृदयमाह्लादय । १०. ऊढा मत्तास्तथोन्मत्ता रीढाचिन्ताविवर्जिता । ११. कदनानि कृतानि रदनानां पतनाय ! १२. कनके लब्धे कषे चिन्ता। १३. क्षुद्वाधायां किमुद्बल्यं खाद्यते ? १४. क्रतवः शतं कृतयः कति ? १५. खुरस्यास्तु खटुडूता। १३.३.क्षुप४-वृक्षस्य प्रारम्भावस्था । १३.५.अम्बके-नत्रे । १३.६.बुन्देषुबाणेषु । वैदिकोऽयं शब्द।बाणासनेन-धनुषा । १३.७.कं-जलम्। १३.८. कुहचित्-कुत्रचित् । अमोघा-अव्यर्था । १३.१०.रीढा-अवमानना। रीढावमाननावजेत्यमरो न स्मर्यते किम्?तद्विषयिण्या चिन्तया विवर्जिता। १३.१२.कपे-सुवर्णपरीक्षार्थमुपयुज्यमाने साधनविशेषे । १३.१३.उद्वल्यम्उद्भिज-बल्यम्=Tonicof plants= Manure | मया सृष्टोऽयं शब्दः । यद्यपि कुणप इति शब्दोऽस्मिन्नर्थे सुरपालप्रणीते वृक्षायुर्वेद गोचरीभवति,परन्तु तस्यास्मिन्नर्थेऽनतिरूढत्वात् शव इत्यर्थे च बहुलं प्रयुक्तत्वान्नवीनस्य शब्दस्य सृष्टये मया प्रयत्लो व्यधायि । १३.१४.क्रतव४निश्चया इत्यर्थो वेदे । यज्ञा इत्यर्थस्तु भाषायम् । १३.१५.खटुङ्कता-परुषता, स्पर्शकठिनता। १६. गलन्त्यां तैलमपि धीयते। १७. गृध्रः किं गगनं गवेषते ? १८. चापवते कोपो न कारयितव्यः । १९. जडात्मनां कृते नीचा एव निलिम्पा । २०. तण्डुले तुषो नास्ति। २१. तरणितप्तानां तरुरेवाश्रयो न च निजा छाया। २२. तुवरी विना कीदृशी यूषा ? २३. तैलेन लिप्ते पादतले शीर्षं शीतलायते। २४. दण्डहीनेन चण्डव्याघ्रो न कोपनीयः । २५. दर्शनदुर्दुरूटाद् दूरं द्रुवस्व। २६. द्राङ्क्षत्सु जनेषु दैवं हस्तं प्रसारयति। २७. द्वयोः कोलाहले तृतीयस्य हालाहलम् । २८. नयनं तुष्टं सर्वं मिष्टम्। २९. नवे वयसि नगराजोऽपि नवनीतायते। ३०. नवीनभेषजापेक्षया पुराणरोग एव वरम् । १३.१६.गलन्त्यां - जलाधानार्थे पात्रविशेषे । सत्याम् आवश्यक्तायां तत्र तैलमपि आधातुं शक्यते। १३.१९.निलिम्पा-देवाः । १३.२१.तरणिःसूर्यः। १३.२२.यूषा-'सार' इति कन्नडभाषायाम् । अनया मिश्रितस्य ओदनस्यादनं कर्णाटके नितरां प्रसिद्धम् । १३.२३.एतच्चानुभवसिद्धम्। १३.२५.दर्शनदुर्दुरुटात्-दर्शनान्यधीत्य सम्यगजानानाद् द्राक्षेपं च कर्तुः। 'कुत्सितानि कुत्सन'(२.१.५३.)रिति सूत्रम् । तत्र ‘मीमांसकदुर्दुष्ट'इत्युदाहरणं दीयते। ( मीमांसकदुर्दुरुढ' इति पाठान्तरम्।)"यो मीमांसाम् अधीत्यान्यथा जानानो दुराक्षेपं करोति स एवमुच्यते इति बालमनोरमायां वासुदेवदीक्षितः । तदनुकृत्या 'दर्शनदुर्दुरूट' इति शब्दो मया सृष्ट।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73