Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 19
________________ [१३-१३] आभाणकजगन्नाथः ६९. शिलीयया पूजया विलीयते किं दुर्गुणः ? ७०. शीर्षासनप्रयोगेऽपि निम्बकं न जम्बीरायते । ७१. शुकचञ्चूर्यदि दीर्घा विस्मयकारणमत्र, कचर्यदि दीर्घा विस्मयहेतुः कोऽत्र ? ७२. शून्येऽरण्ये श्रान्तये शूरभावः । ७३. शेषेण पूर्णं कुरु । ७४. श्रान्तस्याश्वस्य शफः किं कर्त्यते ? ७५. संकटप्रसंगे स्वान्तधैर्यं संजीविनी । ७६. संशयालोः सुखं नास्ति । ७७. समयः सु-मयः कर्तव्यः । ७८. सर्वे शिबिकायामुपविविक्षन्ति, वोढारः के? ७९. सर्वेश्वरः किं दव गृह्णाति ? ८०. सुष्ठु प्रारम्भः सुमुहूर्तः । ८१. सैन्यवतामग्रे दैन्यमेव सद्बुद्धिः । ८२. स्थाने कोपः स्वर्गं सृजति । ८३. स्नुही मरुप्रियाणां स्वादीयसी सुधा । ८४. स्वकीये स्वप्ने साम्राज्यानि सृज । ८५. हृदयजय एव वास्तविको जयः । ८६. हृदयशुद्धिं वदनं वदति । [२४९] १३.७२.शूरभावः-शौर्यम् । १३.७८. उपविविक्षन्ति उपवेष्टुम् इच्छन्ति । १३.८३.स्नुही कॉक्टस् (cactus) । 'कळ्ळी' इति कन्नडे । मरुप्रियाणाम्उष्ट्राणाम् । १६ १. २. ३. ४. ५. ६. आभाणकजगन्नाथः १४.अनौचित्यम्। आखूनां रक्षणार्थम् आखुभुङ् नियुक्तः । उरसि शोकभराणामुपनिषदामुपदेशः । चोराय भूरिदानम्। जालकाद् भीत्वा ज्यैष्ठिकेन युयुत्सति । पादावन्यस्य पादरक्षे चान्यस्य । बापं मुञ्चतामग्रे बुद्धस्यार्यसत्यानि । शुचा मौनिनां पुरः शाखामृगीयं नृत्यम् । ७. ८. शूर्पणखायै ताटङ्कमुपायनम् । १. २. ३. मन्दं मन्दं महासिद्धिः। ४. विलम्बो बभूव, विशुद्धिर्बभूव । ५. सत्वरं गत्वराश्चत्वरे भ्रंशन्ते । [१४-१५] १५. न त्वर्यताम् अरणा बुभूषवश्चरणविपर्यासाद् धरणौ पतिताः । त्वरा क्रियतां गर्ते पत्यताम् । [२५७] १७ १४.४. जालकात् ऊर्णनाभेः। ज्येष्ठिकेन मल्लेन। १४.६. आर्यसत्यानि मुमुक्षुणाऽवश्यं ज्ञेया दुःखसमुदयनिरोधमार्गाः । एते स्वयं बुद्धेनैवोपदिष्टाइतिबद्ध श्रद्धा । १४.७ पुरः- अग्रे । शाखामृगीयम् कपिरचितम् । १५.१. अरणाः - असमानाः । अनितरगोचरसामर्थ्यवन्त इति यावत् । वैदिकोऽयं शब्दः । शौनक्शाखायां प्रयुक्तस्यारणशब्दस्य (१.१९.३) पर्यायत्वेन पैप्पलादशाखायाम् असमानशब्दः (१.२०.३) प्रयुक्तः । “Nature of Vedic sakhas" (The Poona Orientalist. XVI.No. 1to4)सुधीरकुमारगुप्तः । १५.५.गत्वराः - गमनशीलाः। चत्वरे-चतुष्पथे।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73