________________
[१३-१३]
आभाणकजगन्नाथः
६९. शिलीयया पूजया विलीयते किं दुर्गुणः ? ७०. शीर्षासनप्रयोगेऽपि निम्बकं न जम्बीरायते । ७१. शुकचञ्चूर्यदि दीर्घा विस्मयकारणमत्र,
कचर्यदि दीर्घा विस्मयहेतुः कोऽत्र ?
७२. शून्येऽरण्ये श्रान्तये शूरभावः । ७३. शेषेण पूर्णं कुरु ।
७४. श्रान्तस्याश्वस्य शफः किं कर्त्यते ?
७५. संकटप्रसंगे स्वान्तधैर्यं संजीविनी ।
७६. संशयालोः सुखं नास्ति ।
७७. समयः सु-मयः कर्तव्यः ।
७८. सर्वे शिबिकायामुपविविक्षन्ति, वोढारः के?
७९. सर्वेश्वरः किं दव गृह्णाति ?
८०. सुष्ठु प्रारम्भः सुमुहूर्तः ।
८१. सैन्यवतामग्रे दैन्यमेव सद्बुद्धिः ।
८२. स्थाने कोपः स्वर्गं सृजति ।
८३. स्नुही मरुप्रियाणां स्वादीयसी सुधा ।
८४. स्वकीये स्वप्ने साम्राज्यानि सृज । ८५. हृदयजय एव वास्तविको जयः । ८६. हृदयशुद्धिं वदनं वदति ।
[२४९]
१३.७२.शूरभावः-शौर्यम् । १३.७८. उपविविक्षन्ति उपवेष्टुम् इच्छन्ति । १३.८३.स्नुही कॉक्टस् (cactus) । 'कळ्ळी' इति कन्नडे । मरुप्रियाणाम्उष्ट्राणाम् ।
१६
१.
२.
३.
४.
५.
६.
आभाणकजगन्नाथः
१४.अनौचित्यम्।
आखूनां रक्षणार्थम् आखुभुङ् नियुक्तः ।
उरसि शोकभराणामुपनिषदामुपदेशः । चोराय भूरिदानम्।
जालकाद् भीत्वा ज्यैष्ठिकेन युयुत्सति । पादावन्यस्य पादरक्षे चान्यस्य ।
बापं मुञ्चतामग्रे बुद्धस्यार्यसत्यानि ।
शुचा मौनिनां पुरः शाखामृगीयं नृत्यम् ।
७.
८. शूर्पणखायै ताटङ्कमुपायनम् ।
१.
२.
३.
मन्दं मन्दं महासिद्धिः।
४.
विलम्बो बभूव, विशुद्धिर्बभूव ।
५. सत्वरं गत्वराश्चत्वरे भ्रंशन्ते ।
[१४-१५]
१५. न त्वर्यताम्
अरणा बुभूषवश्चरणविपर्यासाद् धरणौ पतिताः ।
त्वरा क्रियतां गर्ते पत्यताम् ।
[२५७]
१७
१४.४. जालकात् ऊर्णनाभेः। ज्येष्ठिकेन मल्लेन। १४.६. आर्यसत्यानि मुमुक्षुणाऽवश्यं ज्ञेया दुःखसमुदयनिरोधमार्गाः । एते स्वयं बुद्धेनैवोपदिष्टाइतिबद्ध श्रद्धा । १४.७ पुरः- अग्रे । शाखामृगीयम् कपिरचितम् । १५.१. अरणाः - असमानाः । अनितरगोचरसामर्थ्यवन्त इति यावत् । वैदिकोऽयं शब्दः । शौनक्शाखायां प्रयुक्तस्यारणशब्दस्य (१.१९.३) पर्यायत्वेन पैप्पलादशाखायाम् असमानशब्दः (१.२०.३) प्रयुक्तः । “Nature of Vedic sakhas" (The Poona Orientalist. XVI.No. 1to4)सुधीरकुमारगुप्तः । १५.५.गत्वराः - गमनशीलाः। चत्वरे-चतुष्पथे।