________________
आभाणकजगन्नाथ
आभाणकजगन्नाथ:
[१६-१६
६. सहसा कृत्यं तरसा चित्यम्।
[२६३] ___१६.तस्माज्जागृत जागृत १. अवनिराकर्णयति। २. अ-विदितानामालिङ्गनं लवित्रेण लाङ्गलच्छेदनाय। ३. इक्षुरसे मधुरे किम् इक्षुयन्त्रं मधुरम् ? ४. कपिना साकं क्रीडा वा व्रीडा वा ?
कुञ्जराणां दर्शनं कमलानां रोदनाय ।
केषाञ्चिल्लाङ्गुलं शृङ्गात् तीक्ष्णतरम् । ७. क्रमेण व्याघ्रो वानरोऽभवत्। ८. क्रोशस्थोऽपीक्ष्यतेऽक्ष्णोः कथमपि कुधरः प्रस्तरक्षेपदूरः । ९. गवाक्षाणां श्रवाः सन्ति। १०. घटद्वयसं क्षीरमाशु स्फुटति चिञ्चाबिन्दुना। ११. चषकं नव्यं यत्र च गव्यम् । १२. दन्तदर्शने नान्तर्दर्शनम्। १३. नक्तं शुक्तिर्मुक्तया सङ सज्जा। १४. बालवणो ब्रह्मराक्षसः । १५. भानुमण्डलेऽपि तमखण्डोऽस्ति । १५.६.तरसा-वेगेन । चित्यम्-मृतम् (अभिधानचिन्तामणि) । १६.२.लवित्रेणकर्तनार्थेन साधनविशेषेण । १६.८.कुधर:-पर्वतः । १६.९.थवा-कर्णा । १६.१०.घटद्वयसं-घटप्रमाणकम् । स्फुटति-भिन्नं भवति । चिञ्चाया:तिन्त्रिण्याड,लक्षणया तद्रसस्य बिन्दुना। १६.११.चषकम्-पानपात्रम् । १६.१३.नक्तं-रात्रौ ।सयसन्जा-सयाय युद्धाय, सजा-सन्नद्धा।
१६. भिन्ने स्वान्ते बन्धनं क्लेशसाध्यम् । १७. मा द्विकर्णा भित्तिस्त्रिकर्णा। १८. मषीबिन्दुनिपातेन मदनो मर्कटायते। १९. महतामन्तरङ्गे गहना कुहना। २०. महामहोपाध्यायो महोपद्रवकारी। २१. महाशा मोघाशा। २२. माननाशाय महामानवैमैत्री । २३. मुक्तिकाभ्रान्त्या शुक्तिकायै पट्टाभिषेकः । २४. मुञ्चति जलूका नाञ्चति नक्षत्रिकः । २५. रसज्ञा रसान् विरसयति। २६. लालनार्थो गर्दभपोत: पालकं पाडयति। २७. लालितः सारमेयो लीलया दशति । २८. लालितो मूषिको लुलायो बभूव। २९. विटपिनि फलपूर्णे प्रस्तरैर्हा ! प्रहारः । ३०. विदितं मौल्यं वजे नष्टे। ३१. विदिता देवता विपर्यस्ता जाता। ३२. शैवालच्छन्नस्तटाको गभीरो वाऽऽश्यानो वा ? १६.२१.मोघाशा-व्याशा । १६.२४.जलूका-रक्तं बलवञ्चूषन् कृमिविशेषः । अञ्चति-गच्छति । नक्षत्रिका-हरिश्चन्द्रोपाख्याने हरिश्चन्द्रं धनाय बहुधा पीडितवान् विश्वामित्रशिष्यः । १६.२५.रसज्ञा-जिह्वा । १६.२६.पाडयतिपादाभ्यां ताडयति।पाड लत्ताप्रहारे इति नवीन एष धातुमयेव सृष्ट इति ज्ञेयम् । १६.२८.लुलाय:-महिषः । १६.३२.आश्यान:-पेलवा,गभीरत्वधर्मप्रति योगी।