Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 36
________________ [५७-५९] आभाणकजगन्नाथ आभाणकजगन्नाथ: [५९-६०] ४. धीनास्ति रासभस्य, हीनास्ति जठरस्य । ५. सुग्रासे लब्धे सर्वेऽपि प्राणसखाः । ६. यूषाक्तमोदनं पीयूषवेदनम्। [७०७] ५८.धर्म १. अस्थाने दया धर्म द्यति । २. कर्मप्रपञ्चे धर्मक्लेशा। ३. धर्मनिष्ठानां कर्मपीडा। ४. धर्मवतां दुर्मरणम् । ५. धर्मारण्ये दारुच्छेदः। ६. लटकेषु धर्मशास्त्रं लगुडात्मकम् । ७. स्तुतिकृतिरबला गाली प्रबला। ५९.पुण्यं पापं च १. गजान् हन्तुर्गापूजायां महती प्रीतिः । २. गौतमबुद्धं ध्यात्वा घोरं खरं लाति। ३. चोरितेन पुष्पेण धर्मदेवस्य पूजा। ४. तावद्दघ्नं पापं यावद्दघ्नं पुण्यम्। ५. पटहनिर्माणाय मूकप्राणिनां मारणम् । ५७.६.यूषा- 'सारु' इति कन्नडे। अनया मिश्रितस्य ओदनस्यादनं कर्णाटके नितरां प्रसिद्धम्। ओदनशब्दो नपुंस्यपि । वेदनं सुखम्। 'वेदनं सुखदुःखयोर' इत्यमरः । ५८.१. द्यति-खण्डयति।दो अवखण्डने। ५८.६.लटकेषु-दुष्टेषु । ५९.२.लाति-आदत्ते। ला आदाने । ५९.४.दनम्-परिमाणकम् । ६. पापाचरणेन पुण्यसंचयः । ७. पालीत्रिपिटकेन पिपीलिकां मारयति। ८. पुण्यं स्वप्रणीतं परैरनुष्ठितं कुम्भीपाकाय । ९. पुण्यपादपे पापफलम्। १०. पुण्येनार्जितं द्रव्यं पापाय व्ययितम् । ११. पुरस्ताद्देवस्य पादरक्षायां चिन्ता। १२. पुराणं श्रुत्वा पादरक्षाम् अचूचुरत् । १३. पुस्तकचोरस्य पुण्ये पञ्च प्राणाः । १४. पूर्णे पापे प्रच्छकः कोऽपि नास्ति । १५. प्राचीनं पुण्यं नवीनं पापमभूत्। १६. प्राचीनपुण्यानां प्रत्यग्रपापेन परिहारः । १७. फलिते पापे दलितं हृदयम्। १८. शुनः पुण्यवृद्ध्या शशस्य पापवृद्धिः । १९. शैलदघ्नेषु पातकेष्वैलबिलेन कृतेषु चैलधावस्य पापं कैलासदघ्नम्। ६०.फलज्यौतिषम् १. इधुं भक्षयितुम् इभस्य कीदृशो मुहूर्त ? ५९.९. पादपे-वृक्षे। ५९.१७.दलितं-खण्डशो विभक्तम्। ५९.१९. शैलदघ्नेषु-पर्वतपरिमाणेषु। ऐलबिलेन- कुबेरेण, लक्षणया धनिकेन । चैलधावस्य-रजकस्य, लक्षणया दरिद्रस्य । कैलासदघ्नम्- कैलासपर्वतपरिमाणकम् । धनिकस्य पापफलं दरिद्रस्योपरि क्षिप्यत इत्यर्थः । ६०.१. इभस्य-गजस्य। [७३३]]

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73