Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 33
________________ [५०-५०] आभाणकजगन्नाथः ७. चरकं ज्ञात्वा हरति प्राणान् । ८. जगतीं जेतुं जिह्वां जय। ९. तर्पय जिह्वां सर्प च रोगम् । १०. भेषजे पीते रोगो जातः । ११. महौषधिरभूत् पङ्घर्महावैद्यस्य कौशलात् । १२. रासभे दृष्टे दन्तशूलम् । १३. रुग्णस्याग्रे भेषजं विस्मृतम् । १४. रोगः शापश्चेतनानाम् अलसानां वरो वरः । १५. रोगी वैद्यस्य भेषजम् । १६. विग्रस्य किं प्रतिश्यायः ? १७. वैद्ये दृष्टे व्याधिर्जातः । १८. वैद्येन ग्रन्थे पठ्यमाने रुग्णस्य प्राणाः आकाशमपठन् । १९. शीर्षवेदने गते श्लीपदं संजातम् । २०. शुक्रशिष्या रोगिबन्धून् रोदयन्ति । २१. शुण्ठी शोषात् क्षयं गता । २२. सर्वाणि भेषजानि पीत्वा सर्वान् लोकान् जगाम । २३. सर्वान् वैद्यान् बुभूषून् दृष्ट्वा धन्वन्तरिरुच्चैररुदत्। २४. सर्वासां रुजां स्वान्तचिन्ता निदानम् । [६३०] ५०. १६. विग्रस्य - विगतनासिकस्य । प्रतिश्यायः- नासिकारोगभेदः । ५०.१९. श्लीपदम् - पादस्यातिशयेन स्थौल्यम् । रोगभेदोऽयम् । ४७.२०. शुक्राचार्यः संजीविनीविद्यां वेत्ति स्म । ५०.२१. शुण्ठी तु महौषधिः । तस्या एव यदि रोगो भवति, दूरोत्सरिता चिकित्साप्रत्याशेत्यर्थः । ४४ १. २. ३. ४. ५. ६. ७. आभाणकजगन्नाथः ५१. दीनाः [५१-५१] अत्रावटस्तत्रानलः । अनुदिनं कुम्भीपाकेऽप्यायुः शतानां शतम् । अस्थि दशतो शुनो गृहम् अमृतेच्छुर्गरुड आगतः। इष्टदेवतास्मरणं कष्टकाले । कपर्दिकाविहीनस्य करयोः प्रतिसप्ताहं नूतना सन्ततिः । काकिणीरहितानां स्वप्ने कुबेरकोशः । काकिणीहीनस्य श्मश्रुणि चम्पकप्रसाधनाय किङ्करपञ्चकम्। कुड्यं कुट्टयति, घटो घट्टयति । गर्दभवाहस्य पञ्चकन्याभिर्विवाहः । ८. S. १०. ग्रासं ग्रसमानानां हव्यान्ने हेवाकः ? ११. घर्मो घोरश्चर्मोत्लोषः । १२. चर्वति कपर्दिकां चक्रवर्ती भिक्षते ! १३. तलं ताडयति, कुड्यं पाडयति । १४. दरिद्राणां दुन्दुभिवादनम् । १५. दीर्णहृदयानां शिरसि दृषद्वर्षा । १६. दुरितं दैवाल्लब्धम् । १७. दुर्गतिकाले देवं स्मरति । ५१.१.अवट:-गर्तः । ५१.१०. ग्रासं तृणम् । हेवाक:- उत्कण्ठा । ५१.११. धर्मःउष्णता । उल्लोषः-दहनम् । उत् + प्लुष दाहे भ्वादि: । ५१. १५ दृषद्वर्षाअश्मवृष्टिः।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73