Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 29
________________ आभाणकजगन्नाथ आभाणकजगन्नाव: ४३.क्रोध: १. क्रुद्धता विद्धबुद्धीनाम्। २. क्रोधो योधं ममार। ४४.वरम् १. अकरणादसंबद्धकरणं वरम्। २. अलाभादल्पो वरीयान्। ३. जोषमुपवेशनादीषत् कासनं वरम् । ४. ज्वरेण शयनादुन्मादेन द्राङ्क्षणं वरम्। [५२०] ४५.चतुरतरा १. आखैः किं प्रयोजनमाखो ? २. उर्वीपालनं दर्वीधारणेन कुर्वन्ति। ३. कुक्कटो यावन्न लयति तावच्छिखा लङ्किता। ४. गर्दभे ताडिते गोमायुर्जागरितः। ५. चतुराणां मुष्टौ चत्वारि सेनाङ्गानि। ६. जोषमुपविश्य जगतीं जुषति। ७. तैर्बिलान्तः सृप्तम् एतैः स्थलान्तः सृप्तम्। ४४.३.ईषत्-स्वल्पश: । क्रियाविशेषणमेतत् । कासन-कासक्रिया। ४४.४. द्राक्षणं-आक्रोश४५.१.आखै?-खननसाधनविशेषः । ४५.४.गोमायु:शृगालः। ४५.६.जोष-गात्रकम्पराहित्यं यथा स्यात् तथा। जुपति-सेवते। ४५.७.सृप्तम्-गात्रसंकोचपूर्वकं प्रविष्टम्। ८. दार्षदां देहि, देवामृतं लाहि। ९. नाणके पटिष्ठाठ, क्रय्ये वरिष्ठाः । १०. पर्ने पङ्कजमभिधाय रावेण राराजते। ११. बुद्धौ निशितायां बिल्वं ब्रह्मास्त्रम् । १२. वारिवाहे वीनां वलनमिव विज्ञानां वाक् । १३. सूची तीक्ष्णधियां सास्वायते। १४. सूदाश्च धृतवेदाश्च। ४६.चरितम् १. उपोषितस्य भोज्यं न, तृतीयकृष्णस्य राज्यं न। २. कटकेशो वा लटकेशो वा ? ४५.८.दार्षदा-दृषदि पिष्टा । सक्तवः । धान्यचूर्णमिति यावत् । लाहिस्वीकुरु । ला आदाने अदादिः । ४५.९.क्रय्ये-केतुं शक्ये वस्तुनि। ४५.१०.राडूवेण-रहनामकमृगविशेषरोमभिर्निर्मितेन पटविशेषेण। ४५.१२.वारिवाहे-मेघे। वीनां-पक्षिणाम्। वलनमिव-चलनमिव । पक्षिणो यथा मेघमध्ये विना थमलेशं डयन्ते, तद्वत् सलीलं वदन्ति चतुरा येन विरोधलेशोऽपि नोत्पद्यत इत्यर्थः । ४५.१४.सूदा-पाचकाः। ४६.१.उपोषितस्य-उपवासं कृतवतः । तृतीयकृष्णस्य-मुम्मडिकृष्णराज ओडेयर्-कस्य । (राज्यभारसमय:-१७७४-१७९६.)। एष टिप्पूसुल्तान्कस्य मरणानन्तरं मैसूरुराज्यस्य राजाऽऽसीत् । समर्थोऽपि क्रमेण क्लेशग्रस्त एषः। राज्यनिर्वहणासमर्थोऽयमिति ब्याज ख्यापयित्वा ब्रिटिकै राज्यमेतस्माद् बलादपहृतम् । एष थीतत्त्वनिध्यादिबहुग्रन्थकर्ता विद्वान् आसीत्।४६.२.कटक:-सैन्यभागः।लटका-दुष्टाः । अयमाभाणकः कमप्येकं पुरुषं न निर्दिशति । कदाचित् सेनानायका दुष्टा अभूवन्नित्यत्र सर्वत्रापि विश्वचरिते साक्ष्याणि लभ्यन्ते।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73