Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 25
________________ [३०-३१] आभाणकजगन्नाथ आभाणकजगन्नाथः ६. परिणयो वा परितापो वा ? ७. पुरुषद्वेषिण्या: परिणयाधिक्यम्। ८. लज्जालुर्वधूरि लुलायस्य कण्ठे समार्पयत् ! ९. वनिताद्वेषिणो वारं वारं विवाहः । १०. वधू रासभी,वरः क्रमेलक। ११. विवाहो वा विलापो वा ? १२. प्रीतिर्वा प्राणसंकटं वा ? १३. प्रेयसी परिणयानन्तरं वायसी। १४. भार्या यदि भारठ, पति प्रेतः । १५. शिशुशून्ये गेहे शीर्णदन्तानां बाललीला। १६. स्वयं विग्रह स्वपत्नीं शूर्पणखामभिदधाति। [४२९] ३१.दाम्पत्यम् १. गरिष्ठं नियुद्धं स्वादिष्ठं प्रेष्ठयोः। २. जाते संताने जयघोषः स्फीते संताने भयरोषः । ३. दम्पत्योः कलहश्चोरस्य सौभाग्याय। ४. दम्पत्योः कृते दण्डादण्डि दिव्यं सुखम् । दयितो विवाहानन्तरं दौर्भाग्यदो जातः । पतिपत्न्योः कलहे शिशुचेष्टितं निर्बाधम् । पतिपत्न्योः परस्परेण प्रतारणा। ८. पत्नी करेणुः पतिः परमाणुः । ९. पत्नी ताटका, पतिः किम्मीरः । १०. परिणयात् प्राक् प्रेष्ठः, परिणयानन्तरं पापिष्ठ । ११. प्रथमा संततिालनाय, द्वितीया पालनाय, तृतीया ताडनाय। ३०.८.लुलायस्य-महिषस्य । ३०.१०.क्रमेलक-उष्ट्र४।३१.१.नियद्धं-मल्लयुद्धम् । ३१.२.स्फीते-अधिक जाते।स्फायी वृद्धौ।३१.७.प्रतारणा-वज्चना। ३१.८.करेणु-गजस्वी । ३२.कुटुम्बम् १. अङ्गणं पादशूलम्, अतिथि शिरशूलम् । २. अपायकाले नपादपि न पाति। अजीगत शुनश्शेपस्य कोऽस्ति ? कुटुम्ब नाम कन्दुकानां सहस्रैरम्बरकरण्डकः । कुटुम्बे कुरुक्षेत्रम्। कुटुम्बे बन्धनं जीवनं दन्धनम्। ७. श्वश्रूट्टालिकां कुट्टयति,स्नुषा पेटिकां घट्टयति। [४३६] ३१.१६.विग्रह-गतनासिकः । ३२.२.नपात्-पुत्र इत्यर्थो वेदवाङ्गये । ३२.३. अजीगत शुनशेपस्य पिता । स धनाशया स्वसुतं हरिश्चन्द्राय समर्पितवान् । स च हरिश्चन्द्र उदरबाधया पीडितो वरुणाय बलिमर्पयितुमाचकाङ्क्ष । अधिकया धनाशया स्वपुत्रमेव हन्तुमप्युद्यत आसीदजीगर्त। (ऐतरेयब्राह्मणे )।३२.४.अम्बरकरण्डक?- द्वित्राणां कन्दुकानां हस्ताभ्याम् ऊर्ध्वमुत्क्षेपस्तेषां व्युत्क्रमेण च ग्रहणं पुनरुपयुत्क्षेपणम्। "भाणवाङ्मयचरितम्-वेशसंस्कृतिः”-के.वि.कृष्णमाचार्युलु-संस्कृतविमर्श:संपुट४५.भागी१,२.डिसेम्बर १९७७ राष्ट्रिय-संस्कृत-संस्थानम् । नवदिल्ली । ३२.६.दन्धनम्-व्यर्थम् । 'अबिन्धनधनञ्जय-प्रशमदं धनं दन्धनम्' (जाठराग्निप्रशमनैकप्रयोजनं धनं व्यर्थम्)इति वेदान्तदेशिकीये वैराग्यपञ्चके।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73