Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 213
________________ योगवार्तिकम् । - तर्कसमापतिसूत्रे ऽस्माभिः प्रोक्त इति दिक् । लक्षणपरिणामं परीक्ष्यावस्थापरिणामं परीक्षितुं धर्मगतं विभागमाह । ते लक्षिता इति । लक्षिता व्यक्ता वर्त्तमाना इति यावत् अलक्षिता अव्यक्ता अतीतानागता इति यावत् । तांतां बाल्ययोधनवार्धकाव्यवस्यां प्राप्नुवन्तेोन्योन्यमन्यत्वेन भेदे - नोच्यन्ते बालायं न युवेत्यादिरूपेण । स च निर्देशो ऽवस्थान्तरतो ऽवस्याभेदादेव न तु द्रव्यभेदादित्यर्थः । तथा च पूर्वावस्थापाये अवस्थान्तरप्राप्तिः सिद्धा सैव चावस्यापरिणाम इति भावः । यद्यप्येतादृशोऽवस्थापरिणामो ऽनागतातीतलक्षणयेोरपि पूर्वमुक्तः । तथापि वर्तमानलक्षणस्यैवावस्यापरिणामः स्फुटमुपलभ्यतइत्याशयेन वर्त्तमानलक्षणमालम्व्येव स उदाहृत इति । धर्मिण एकत्वेपि निमित्तभेदेनान्यव्यवहारे दृष्टान्तमाह । यथैकेति । यथा एकत्वव्यज्जिका रेखा अङ्कविशेषो यदा बिन्दुद्वयोपरि तिष्ठति तदा शतमिदं नैकमिति व्यवहीयते । तयोरेकबिन्दु लोपे च दशेदं न शतमिति व्यवह्रीयते अवशिष्ट बिन्दुस्थाने चैकत्वव्यज्जकरेखान्तरदाने सति एकादशेदं न दशेतीत्यर्थः । दृष्टान्तान्तरमाह । यथा चेति । उच्यतइति । पुत्र पितृभ्रातृभिर्जनकत्त्वादिनिमित्तभेदान देनेति शेषः । अवस्थापरिणामेपि बौद्धोक्तं दूषणमुदाहरति । अवस्येति । अवस्थापरिणामाभ्युपगमे धर्मधर्मलक्षणावस्थानां चतुर्णामेव कोटस्थ्यापत्तिरित्यर्थः । तत्र हेतुं पृच्छति । कथमिति । उत्तरम् । अद्भुनो व्यापारेण व्यवहितत्वादिति । व्यापारनिमित्तेनैव सर्ववस्तुष्वनागतादयध्वनामन्योन्यं व्यवहितत्वाभ्युपगमात् विभागाभ्युपगमात् न तु भावरूपेण धर्मलक्षणयोः सदा सत्वस्येष्ट. त्वादित्यर्थः । अधुना विभागस्य व्यापारनिमित्तकत्वं विवृणोति । यदा धर्म इत्यादिना तदा अतीत इत्यन्तेन । धर्मशब्दात्राश्रितमात्रवाची न करोति न करिष्यतीत्यर्थः । श्रान्ताध्वनेोर्विभागस्य व्यापारनिमित्तकत्वं व्यापाराभावनिमित्तक्रत्वेन परम्परयेति भावः । एवं च सति पूर्वधर्मातीततायां धर्मान्तराभिव्यक्तिरित्येवंरूप परिणामलत्तणाचित्यत्वमवस्थानामपि भवद्विक्तव्यं न तु विनाशः । अवस्थानां च नित्यत्वे किमप्यनित्यं न स्यादित्येवं धर्म्मधर्म्यादिकं सर्व जगत् कूटस्थं स्यादिति परदोष उच्यतइति 1 Jain Education International For Personal & Private Use Only १९९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330