Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 247
________________ २३३ योगवार्तिकम् । दिविलयात् केन करणेन तदानी विज्ञातारमात्मानं पुरुषो विजानीया. दित्यर्थः । अत्र हि श्रुती करणेन पुरुषस्यैव स्वजेयत्वमवगम्यते । अजेयत्वे च विज़ातारं को विजानीयादिन्येबोच्यतेति । दयं श्रुतिः पुरुषस्य सर्व देवाजेयत्वं वदन्तीति कश्चित् तत्र । यतो न प्रेत्य संज्ञास्तीति पूर्ववाक्ये याज्ञवल्क्येन मोक्षकाले ज्ञानस्वरूपोपि पुरुषो न जानातीत्युक्तम् अखिलदुःखभोगनित्तिरूपपरमपुरुषार्थमा प्रदर्शयितुम् । तत्र विशेषं दृष्ट्वा मूठाया मैत्रेय्यास्तविरोधपरिहारायैवेदं वाक्यं प्रवर्त्तने न तु पुरुषस्याज्ञेयत्वप्रदर्शना. य अप्रकृताभिधानप्रसङ्गादिति । ननु भवन्मपि पराजेयत्वेन कथं मैत्रेय्याः शङ्कापगच्छत्तीति चेत्र । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्यदिति पूर्व युत्यैव विरोधस्य परिहतत्वात् । स्वयं ज्ञानस्वरूपोपि सर्वकरविलयान्मोतकाले किमपि न विजानातीति तत्र च मैत्रेय्या कदाचिदाशयत मोक्षकाले नभिव्यक्त्या आत्मा ज्ञानस्वरूप एव मास्त्विति तत्रोत्तरं वा. क्यं प्रवर्त्तते येनेदं सर्व विजानाति तं केन विजानीयात् विज्ञातारमरे केन विजानीयादिति । आत्मा र्याद ज्ञानस्वरूपो न भवति तद्विषयकज्ञानान्तरकल्पने ऽनवस्यादिमिति श्रुतेराशयः । स्वार्थप्रत्ययसंयमेन पुरू'षसाक्षात्कारे जाते सति तल्लिङ्गरूपाणि विवेकजज्ञानस्य च पूर्वरूपाणि प्रतिभाव्याः सिद्धयो भवन्ति ताश्च पुरुषैकाग्रतापरिपन्यित्वेनासंप्रजातयोगविघ्नभूता एवेति प्रतिपादयितुमादी ताः प्रदर्शयति । ततः प्रातिभश्रावणवेदनादर्शास्वादवाती जायन्ते ॥ ३५ ॥ ततः पुरुषसाक्षात्कारात मनादीनां प्रातिभादिसंजिकाः सिद्धयः | सामर्थ्यविशेषरूपा भवन्ति यस्मात्सामान्मनादिषु व्यवहितादिज्ञानं भवतीत्यर्थः । अत्र कश्चित् । तत इति तच्छब्देन पुरुषजानं न परामृश्यते । तदर्शनप्रत्यनीकत्वादित्यागामिपूत्रभाष्ये पुरुषदर्शनप्रतिबन्धकत्ववचनाद. पि तु स्वार्थसंयम एव परामृश्यते तथा च पूर्वसूत्रोक्तसंयमस्यैवेदं पुरुषज्ञा. नात्प्राक्तनं सिद्धान्तमिति। तत्र । एकस्याः पुरुषज्ञानरूपसिढेरुक्ततया चका * प्रतिभाषाट्या इति पा० २।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330