Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 285
________________ योगवार्तिकम् । २७१ जकानां सत्त्वेपि आलम्बनाभावोपपादनायाभिमुखमिति विशेषणं तथा च सनिकृष्टं वासनाव्यञ्जकमनालम्बनमित्यर्थः । हेत्वादीन व्याख्याय सूत्रवाक्यार्थमाह । एवमिति । संगृहीताः व्याप्ताः । अत एषामभावे ऽत्यन्ताच्छेदे विदेहमुक्तिसमये तदाश्रय णां वियतानां वासनानामत्यन्तो. छेद इत्यर्थः । तथा च वासनानामनादित्वेपि मोक्षः संभवतीत्याशयः । सत्कार्याभ्युपगमात् वासनानामत्यन्तच्छेदो न संभवतीति शङ्कयोत्तरसू. नमवतारयति । नास्तीति । द्रव्यत्वेन संभवन्त्यः वस्तुत्वेन तिष्ठन्त्यः । अतीतानागतं स्वरूपतोस्त्यध्वमेदाहाणाम ॥ १२ ॥ भवेदप्ययं दोषो यदि स्वरूपापायो वासनानामस्माभिरुच्येत किं त्वत्यन्तातीततामात्रं यतोतीतानागतं वस्तु स्वरूपतोस्ति । नन्वेकदा विरुध्यमानानां धर्माणां कथमेकत्र सत्ता घटेत तत्राह । अध्यभेदादमाणामिति । भिनाध्यकत्वादविरोध इत्यर्थः । वर्तमानलक्षणानामेव धर्मा. णाम् एकदा विरोध इति भावः । अतीतानागतयोः स्वरूपानपाये प्रमाण दर्शतिभाष्यकारः। विदिति। भविष्यन्ती व्यक्तिरभिव्यक्तिर्यस्य तत्तथा। त्रयमिति । त्रयमप्येतद्वस्तु स्वरूपसत् यतो योगिनां प्रत्यक्षज्ञानस्य ज्ञेयं विषयः। अत्र तर्कमाह। यदि चेति । नेदमिति। शशङ्गादीनां ज्ञानादर्शना. दिति भावः । तथा चोतं ब्रह्ममीमासासूत्रेण 'नाभाव उपलब्धे रिति । ननु शुक्तिरजतादिवत बुद्धिपरिणामविशेष एव योगजधर्मादिजन्यो ऽतीतादिस्यले साक्षिज्ञानविषयोस्त्विति चेत्र । योगिना पूर्वानुभूतातीतादेः कालान्तपि प्रत्यभिज्ञायमानत्वात् । बाधकामावपि वस्तूनां बुद्धिमात्रत्वे वर्तमानावस्थवस्तूनापि बुद्धिमात्रताप्रसङ्गाच्च । न चानुपलम्भो बाधकः । योगिप्रत्यक्षसिद्धस्य सौल्येणानुपलम्भोपपत्तेः । तथा च सांख्यसूत्रं सौल्या. तदनुपलब्धि' रिति । नन्वतीतादावस्थायां नास्तीति प्रत्ययो बाधक इति । मैवम् । योगिप्रत्यक्षेण लौकिकप्रत्यक्षस्य बाधनात इदानी घटोतीत इत्यादिप्रतीतिबलात् नास्तीति प्रत्ययस्यातीततादिविषयकत्वाच्चेति । अतीतानागतसत्त्वस्वीकारे बीजान्तरमाह । किं चेति । भोगभागी यस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330