Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri

View full book text
Previous | Next

Page 286
________________ २७२ योगवार्तिकम् । भोगसाधनस्य निरुपाख्यमसत् तदुदेशेनेत्यस्य विवरणं तेन निमित्तेनेति कुशलो निपुणः, कुशलो योगी अनागतं साक्षात्कृत्य तदर्तमानत्वाय यतते यथार्जुनः कृष्णशरीरे कालात्मके भीष्मादिप्रवेशं भाविनं दृष्ट्वा युद्धे प्रवृत्त इति । नन्वेवं कारणव्यापारो विफलः कार्यस्य नित्यत्वादित्याशङ्का परिहरवव परमते दूषणान्तरमाह । सतश्चेति । तथा चाव्यक्तावस्थया सतो वर्तमानतायां कारणव्यापारसाफल्यं दृष्टं च कारणव्यापारण सदे. वाभिव्यज्यतइति यथा पाषाणेषु सतामेव प्रतिमापदादीना लौकिकव्या. पारेणाभिव्यक्तिमात्रमिति । तदुक्तं वासिष्टे । सुषुप्तावस्थया चक्रपदरेखा शिलादरे । यथा स्थिता चितेरन्तस्तथेयं जगदावली ॥ इति । चैतन्ये च जगदावली प्रकृतिपुरुषयोस्तप्तायपिण्डवदविवेकेन प्रतिद्वारोपासनार्थी श्रुतिस्मृत्योरच्यते सर्वकर्तृत्वसत्यसंकल्पत्वादिवत् । अथ वा गगने वायोरिवाधारत्वमसङ्गे ऽनेनैव चैतन्ये जगत उच्यते इति । ननु तथापि कारणनित्यत्वेनातीतादावस्थादपि कारणात्सदैव कार्याभिव्यक्तिः स्यात तबाह । सिद्धमिति । सिद्धं वर्तमानमेव निमित्तमित्यादिरर्थः, सतः कार्यस्योत्पत्ती कारणवैफल्यशङ्कानिरासायोक्तं विशेषानुग्रहणमिति । परमतं निषेति । नापति । अतो नापर्वमुत्पादयतीत्यर्थः । अपूर्वोत्पादने च शशशृङ्गायपि कारणव्यापारायुपपद्येत । उत्पत्तेः प्राक शशादिभ्यो घटादीनां वैलतण्याभावादिति अधिकं तु प्रागुक्तम् । अध्यभेदादिति सत्रावयवं व्याचष्टे । धर्मी चानेकेति । अतो न विरोध इत्याह । न ति । अभिव्यक्तिरूपेण विशेषेणैव धर्माणां विरोधो न स्वरूपत इति वाक्यार्थः । द्रव्यतः स्वक्रियाकारित्वेन । पृच्छति, कथं तौति । उत्तरं, स्वेनैवेति । व्योन भावियक्तिकेन । वर्तमानस्येवेत्यादिरध्वनोरि. त्यन्त उपसंहारः । षष्ठी चात्र सप्तम्यर्थे । ननु तथाप्येकाध्वसमये ऽपराध्या. भावादध्वन्येव स न कार्यहानिरित्याशङ्कायामाह । एकस्य चाध्वन इति । एतच्च एते भूतेन्द्रिोष्वत्यादिसूत्रे सम्यगुपपादितमस्माभिरिति । अभूत्वा अस्थित्वा त्रयाणामध्यनां लक्षणानामिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330