________________
२७२
योगवार्तिकम् । भोगसाधनस्य निरुपाख्यमसत् तदुदेशेनेत्यस्य विवरणं तेन निमित्तेनेति कुशलो निपुणः, कुशलो योगी अनागतं साक्षात्कृत्य तदर्तमानत्वाय यतते यथार्जुनः कृष्णशरीरे कालात्मके भीष्मादिप्रवेशं भाविनं दृष्ट्वा युद्धे प्रवृत्त इति । नन्वेवं कारणव्यापारो विफलः कार्यस्य नित्यत्वादित्याशङ्का परिहरवव परमते दूषणान्तरमाह । सतश्चेति । तथा चाव्यक्तावस्थया सतो वर्तमानतायां कारणव्यापारसाफल्यं दृष्टं च कारणव्यापारण सदे. वाभिव्यज्यतइति यथा पाषाणेषु सतामेव प्रतिमापदादीना लौकिकव्या. पारेणाभिव्यक्तिमात्रमिति । तदुक्तं वासिष्टे ।
सुषुप्तावस्थया चक्रपदरेखा शिलादरे । यथा स्थिता चितेरन्तस्तथेयं जगदावली ॥
इति । चैतन्ये च जगदावली प्रकृतिपुरुषयोस्तप्तायपिण्डवदविवेकेन प्रतिद्वारोपासनार्थी श्रुतिस्मृत्योरच्यते सर्वकर्तृत्वसत्यसंकल्पत्वादिवत् । अथ वा गगने वायोरिवाधारत्वमसङ्गे ऽनेनैव चैतन्ये जगत उच्यते इति । ननु तथापि कारणनित्यत्वेनातीतादावस्थादपि कारणात्सदैव कार्याभिव्यक्तिः स्यात तबाह । सिद्धमिति । सिद्धं वर्तमानमेव निमित्तमित्यादिरर्थः, सतः कार्यस्योत्पत्ती कारणवैफल्यशङ्कानिरासायोक्तं विशेषानुग्रहणमिति । परमतं निषेति । नापति । अतो नापर्वमुत्पादयतीत्यर्थः । अपूर्वोत्पादने च शशशृङ्गायपि कारणव्यापारायुपपद्येत । उत्पत्तेः प्राक शशादिभ्यो घटादीनां वैलतण्याभावादिति अधिकं तु प्रागुक्तम् । अध्यभेदादिति सत्रावयवं व्याचष्टे । धर्मी चानेकेति । अतो न विरोध इत्याह । न ति । अभिव्यक्तिरूपेण विशेषेणैव धर्माणां विरोधो न स्वरूपत इति वाक्यार्थः । द्रव्यतः स्वक्रियाकारित्वेन । पृच्छति, कथं तौति । उत्तरं, स्वेनैवेति । व्योन भावियक्तिकेन । वर्तमानस्येवेत्यादिरध्वनोरि. त्यन्त उपसंहारः । षष्ठी चात्र सप्तम्यर्थे । ननु तथाप्येकाध्वसमये ऽपराध्या. भावादध्वन्येव स न कार्यहानिरित्याशङ्कायामाह । एकस्य चाध्वन इति । एतच्च एते भूतेन्द्रिोष्वत्यादिसूत्रे सम्यगुपपादितमस्माभिरिति । अभूत्वा अस्थित्वा त्रयाणामध्यनां लक्षणानामिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org