________________
येोगवार्तिकम् ।
तदेवं मोतयोग्यं चित्तं तदन्यचित्तांनां बन्धप्रकार उक्तस्तस्य च मोचानुपपत्तः परिहता इतः परं मोतकारस्य विवेकज्ञानाख्यसम्यग्ज्ञानस्य विषया लक्षणादिकं चातिविस्तरेण प्रतिपादनीयं विशेषदर्शन इत्यादिसंचत्रयपर्यन्त्रैः सूत्रैः तत्र चादौ सदसत्त्ववैधर्म्येण कार्यकारणयोर्विवेकं सम्यगज्ञानविषयैकदेशं दर्शयति ।
ते
व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥
ते धर्म यापि नित्यास्तथापि कालभेदेन व्यक्ताः सूक्ष्मा वा भवन्तु सdra गुणात्मानः सत्त्वादिगुणमात्रस्वरूपा एव भवन्ति सदा वर्त्तमानत्वेन गुणा एव तदपेक्षया सत्या दूत्यर्थः । व्याचष्टे । ते खल्विति । अत्र सूक्ष्मात्मान इत्यस्यानन्तरं षडविशेषाः इति पाठः क्वचित्तिष्ठति स तु प्रामादिकत्वादुपेक्षणीयः सर्वविकाराणामेव गुणात्मकत्वस्य वक्तव्यतया षडविशेषमात्र निर्देशानौचित्यादिति । प्रयमर्थः । ते धर्माः व्यक्तस्वरूपाः सूक्ष्म स्वरूपाश्च महदादिघटपटान्ताः परमार्थते। गुणात्मानो गुणरूपेणैव सन्तो न तु स्वरूपेण यतः सर्वमिदं धर्मनातं सत्त्वादीनां संनिवेशः संयायस्तद्विशेषमात्रं तद्विलये विलयात् तद्वर्त्तमानतायां वर्त्तमानत्वात्तत्रियतमिति । तदुक्तम् । झन्तयोर्यदसदस्ति तदेव मध्ये इति त्रिगुणात्मकमायैव जगत्परमार्थ इति च । अपारमार्थिकत्वं चानित्यतामात्ररूपासत्त्वम् अन्यथा सृष्टादिप्रतिपादकसूत्रादिविरोधात् । चत्रावयवसंयोगातिरिक्तो धमा नास्तीति न भाष्यार्थः । श्रवयत्रिद्रव्यस्यातिरिक्तस्य स्थानेस्थाने व्यवस्थापितत्वादिति । उक्तार्थे शास्त्रं प्रमाणयति । तथा चेति । परमं घारमार्थिकं नित्यमिति यावत् । मायेव लौकिकमायावत् क्षणभङ्गुरम् अतः: सुतुच्छकम् ऋत्यन्ततुच्छम् अल्पसारं स्थिरांशाभावादिति । ऋत्र सुशब्देन परिणामितया गुणानामपि तुच्छत्वं सूचितं गुणा एवं परिणामितया कूटस्थनित्यापेक्षया तुच्छाः । गुणकार्य तु दृश्यमानं गुणापेक्षयापि तुच्छम् । ऋतः सुतुच्छमिति । यद्यपि मायाशब्दा मिथ्यावस्तूनां कारणे मुख्यः 'मायां तु प्रकृतिं विद्यादिति श्रुतेः । 'विश्वस्य बोजं परमासि माये तिस्मृतेश्व |
१८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org