________________
२७४
योगवार्तिकम् । मायात्वं हि मृषाधिकारण व्यामोहकत्वं तच्च प्रकृतावेव मुख्यं 'प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभारिति । 'जगन्मोहात्मकं विद्धि अव्यक्तं व्यक्तसंजक मिति भारतात । तथापि कार्यकारणाभेदान्मायाशवः कार्यपि प्रयुक्तः 'देवी टेषा गुणमयो मम माया दुरत्यया' इत्यादाविवेति मन्त. व्यम् । नन्वेवं प्रपञ्चोपि प्रत्याख्यमलमायाकार्यत्वान्मायैव अन्यथा
मम योनिमहवस तस्मिन् गर्भ दधाम्यहम् । मूलमायाभिधानं तत्सा शक्तिमयि तिष्ठति ॥
इति कौर्मादिषु मलेतिविशेषणवैयात् । तत् कमिवशब्दः प्रयुक्त इति मैवम् । लौकिकस्येन्द्रजालादेरेवात्र दृष्टान्तत्वेनेवशब्दचित्यादिति । प्रपञ्चस्य मूलकारणमात्रत्वे श्रुतिरपि वाचारम्भणं विकारो नामधेयं मृत्ति कत्येव सत्य'मित्यादरुदाहर्त्तव्या । तथा विष्णुपुराणपि
शिबिका दारसंघातो रचना स्थितिसंस्थितिः । अन्विष्यतां नृपश्रेष्ठ तदे शिबिका त्वया ॥ एवं छत्रशलाकादिपृथगभावो विमृश्यताम् । क नातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥
इत्यादि । एवंविधेषु च वाक्येषु विकाराणामनित्यतयैव विवेकवैरा. ग्ययोस्तात्पर्य न तु कार्यखण्डने कार्यकारणभावप्रतिपादकवाविरोधात् । न च तदनुवादमात्रं महदादिसृष्टेौकिकप्रमाणानधिगतत्वेन अनुवादासं. भवात । प्रमाणान्तरसत्त्वे च तेन सहापि विरोधस्यान्याय्यत्वात् । किं च सर्वविकारस्य मिथ्यात्वे प्रमाणस्यापि मिथ्यात्वनिश्चयेन श्रुतिप्रमाणाव. धृतपि कारणत्वाभिमतब्रह्मादौ पुनः संशयः स्यात प्रामाण्यसंशयाहिता. र्थसंशयादिवदिति दिक। सूत्रान्तरमवतारयति। यति। यदि सर्वे विकारा अनेकगुणमानाः तदा कथमेकं शब्दतन्मात्रम् एकं चतुरिति लोकशास्त्र. योर्व्यवहार इति शङ्कावाक्यार्थः । तत्र सिद्धान्तसूत्रम् ।
परिणामैकत्वाइस्तुतत्त्वम् ॥ १४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org