________________
योगवार्तिकम् ।
२७५ परिणामस्यैकत्वाद्वस्तनां गुणानां तत्त्वमेकामिति योजना । परमार्थतो नानात्वेपि व्यावहारिकेणानित्येन परिणामरूपेण वस्तनां गुणाना. मेकत्वव्यवहार इत्यर्थः । अत एव श्रुतियावहारिकस्यान्यायधविन एकस्यावयविभागे सति नानात्वमेव पारमार्थिकमुक्तवती 'यदग्ने रोहितं रूपं तेजसस्तद्रपं यच्छुक्तं तदपां यत् कृष्णं तदवस्य अपागादग्नेरमित्वं त्रीणि रूपाणीत्येव सत्यमिति । परिणामस्यैकत्वं भाष्यकारो दर्शयति । प्रख्यति । यहाणात्मकानां सात्त्विकान्तःकरणरूपेण परिणतानां बाह्मक. रणभावेन श्रोत्रमित्येकः परिणाम इत्यर्थः । तेन महदहंकाररूपेणापि प. रिणामैकत्वकथनाच न्यनता । अत्र श्रोत्रशब्देनान्यान्यपि जानेन्द्रियाण्यपलक्षणीयानि । याह्यात्मकानामिति । तामसान्तःकरणरूपेण परिणतानामित्यर्थः । अत्र शब्द इति । शब्दतन्मात्ररूपं द्रव्यं मूर्तिसमानना तीयानामित्यागामिभाष्येण द्रव्यत्वलाभात् । एतदपि रसादितन्मात्रा. णामुपलक्षणम् । एवं कात्मकानां राजसान्तःकरणरूपेण परिणतानां कारणान्तीवेनैकैकः परिणामो वागादीन्द्रियमियपि बोध्यम् । अतः परं स्थलभतरूपेणैकं परिणाम दर्यात । शब्दादीनामिति । मतिः काठिन्यं पृथिवीत्वमिति यावत् । मया सजातीयानां शब्दादितन्मात्राणाम् एकः परिणामः पृथिवीपरमाणुः स्थलथिव्याः परमसमावस्थेत्यर्थः । इदं चाये प्रतिपादयिष्यामः। अयमेव सूक्ष्मशब्देन सांख्ये प्रोक्तः 'सूक्ष्मा माता. पितृजाः सहप्रभूतैस्त्रिधा विशेषाः स्युरित्यत्र । अयं च परमाणुर्वैशेषिके. स्त्रसरेणुशब्देनोच्यते । अस्माभिस्तु प्रत्यक्षपृथिव्याः परमसूत्मत्वात्पृथिवी. परमाणुरिति । गुणेषु पृथिवीत्वादिव्यवहाराभावेनाणुत्वेपि न पृथिव्यादाणुव्यवहार इति । तस्य च पार्थिवपरमाणोर्निरवयवत्वभ्रमनिरासाय पञ्चतन्मात्राण्येवावयवा इत्याह । तन्मात्रावयव दति। बहुव्रीहिविग्रहः। महाभूतादिरूपपरिणामेष्वप्येकत्वं दर्शत । तेषामिति । एवमिति । एवं भूतान्तरेष्वपि जलादिषु खेहादिजातीयानि जलत्वतेजस्त्ववायुत्वाकाशत्वजातीयानि तन्मात्राणि गृहीत्वा सामान्यं सजातीयानामनेकेषां धर्मभूत एकविकारारम्भभूत उपपादनीय इत्यर्थः । तद्यथा। गन्धप्तन्मात्रं
-
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org